440

सा दृष्टान्तोक्तिच्छायया विधावृजुः पूर्वा च यथा—

‘तन्मन्ये हिमभासस्तारानिकरेण कान्तिरुच्छेद्या ।
यत्तस्या(एतस्या) मुखमेतद्यदि युवतिमुखानि विजयन्ते ॥ ६५ ॥’

अत्र तदिन्दोस्तारकौघेन कान्तिरुच्छेद्या इति पूर्वमृजूक्त्या दृष्टान्तरूपं पश्चाद्यदेतन्मुखं युवतिमुखानि विजयन्त इति ऋजूक्त्यैव दार्ष्टान्तिकरूपं प्रतिवस्तूपन्यस्तमिति सेयं दृष्टान्तोक्तिच्छायया विधावृज्वीपूर्वा च प्रतिवस्तूक्तिः साम्यभेदः ॥

प्रतीति । सा प्रतिवस्तूक्तिर्दृष्टान्तोक्तिप्रपञ्चोक्त्योश्छायां धर्मं गाहते बिभर्ति तयोश्छायावाहिनीत्यर्थः ॥ तन्मन्ये इत्यादि । एतस्या एतन्मुखं यदि युवतिमुखानि (कर्तॄणि) विजयन्ते तत्तदा हिमभासश्चन्द्रस्य कान्तिस्तारानिकरेणोच्छेद्येत्यहं मन्ये । इह कर्मानुमितिरध्याहार्या । विजयन्त इत्यत्र ‘विपराभ्यां जेः १।३।१९।’ इति तङ् । अत्र प्रथममृजूक्त्या दृष्टान्तः, पश्चाद्दार्ष्टान्तिकमृजूक्त्यैव प्रतिवस्तूपन्यासः । तथा च दृष्टान्तोक्तिच्छाया व्यक्तैव, विधिमुखतापि व्यक्तैव ॥

सैवोत्तरा वक्रा च यथा—

‘शुद्धान्तदुर्लभामिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ ६६ ॥’

अत्र शुद्धान्तदुर्लभमिति वक्रोक्त्या पूर्वं दार्ष्टान्तिकरूपं वस्तूपन्यस्य पश्चाद्दूरीकृताः खलु गुणैरिति वक्रोक्त्यैव दृष्टान्तरूपं प्रतिवस्तूपन्यस्तमिति सेयं दृष्टान्तोक्तिच्छायया विधौ वक्रोत्तरा च प्रतिवस्तूक्तिः साम्यभेदः ॥

शुद्धेत्यादि । यद्याश्रमवासिनो जनस्य वपुरिदं शुद्धान्तेऽन्तःपुरे दुर्लभमस्ति तदा खलु निश्चयेन वनलताभिरुद्यानलता गुणैर्दूरीकृताः सन्ति । ‘शुद्धान्तश्चावरोधश्च’ इत्यमरः । अत्र शुद्धान्तदुर्लभपदेनेदृशं रूपमन्तःपुरेऽपि नास्तीति वक्रोक्तया प्रतिपादितपूर्वं दार्ष्टान्तिके । उत्तरार्धेऽपि वक्रोक्त्यैव दृष्टान्तकथनमिति दृष्टान्तोक्तिच्छायत्वविघिता तु स्फुटैव ॥