569
359मृद्वीकानालिकेराम्रपाकाद्याः पाकभक्तयः ।
नीलीकुसुम्भमञ्जिष्ठारागाद्या रागभक्तयः ॥ १२४ ॥
अन्तर्व्याजबहिर्व्याजनिर्व्याजा व्याजभक्तयः ।
धर्मार्थकामोदर्काश्च 360प्रेमसूदर्कभक्तयः ॥ १२५ ॥
वाक्यवच्च प्रबन्धेषु रसालंकारसंकरान् ।
निवेशयन्त्यनौचित्यपरीहारेण सूरयः ॥ १२६ ॥
चतुर्वृत्त्यङ्गसंपन्नं361 चतुरोदात्तनायकम् ।
चतुर्वर्गफलं को न प्रबन्धं बान्धवीयति ॥ १२७ ॥
मुखं प्रतिमुखं गर्भोऽवमर्शश्च मनीषिभिः ।
स्मृतानिर्वहणं चेति प्रबन्धे पञ्च संधयः ॥ १२८ ॥
अविस्तृतमसंक्षिप्तं श्रव्यवृत्तं 362सुगन्धि च ।
भिन्नसर्गान्तवृत्तं च काव्यं लोकोऽभिनन्दति ॥ १२९ ॥
पुरोपवनराष्ट्रादिमुद्राश्रमवर्णनैः ।
देशसंपत्प्रबन्धस्य रसोत्कर्षाय कल्पते ॥ १३० ॥
राजकन्याकुमारस्त्रीसेनासेनाङ्गभङ्गिभिः ।