735 न्नव्यापारं परार्थं तस्यां क्रियायां न्यग्मवति । तेनायं कर्ता स्वक्रियासिद्भाबाकुलः1681 कथमुपमानत्वेनोपमेयत्वेन 1682वान्यदपेक्षितुं क्षमते । एवं तर्हि योऽङ्गानि लिम्पति तेन क्रियोपलक्षितेन कर्त्रा तुल्यं तम इत्यर्थः प्रतिपत्स्यते । मैवम् । क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्वायबलाप्रतिपत्तिः । शब्दो हि मुख्यागौणीलक्षणाभिरर्थप्रकरणादिसंपादितसाचिव्यादा1683भिस्तिसृभिरेव वृत्तिभिरर्थविशेषप्रतिपत्तिनिमित्तं भवति । तद्यथा—गौरित्ययं शब्दो मुख्यया वृत्त्या सास्नादिमन्तमर्थं प्रतिपादयति स एव तिष्ठन्मूत्रत्वादिगुणसंपदमपेक्ष्य वाहीकादौ प्रयुज्यमानो गौणीं वृत्तिमनुभवति । यदा तु मुख्यया गौण्या वोपात्तक्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदा लक्षणया स्वार्थाविनाभूतमर्थान्तरं लक्षयति यथा गङ्गायां घोषः प्रतिवसतीति गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्तिर्घोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थः स्वार्थाविनाभूतं तटं1684 लक्षयतीति । न चैतासामिहान्यतमापि वृत्तिः संगच्छते । तथा हि लिम्पतेः क्रियावचनत्वान्न मुख्या1685 । नापि क्रियाकर्त्रोरसादृश्येन शुक्तिकादौ रजतादिवत्तद्भावापत्तिः क्रियागुणानां कर्तर्यसंभवात् । साक्षादिव प्रयोगाच्च न गौणी क्रियायाश्च स्वयमेव धर्मरूपत्वात् । बुद्धिः पश्यतीतिवदन्यधर्माणामन्यत्राधिरोपणमुपचार इति न गौणीभेद उपचारिता1686 । इवशब्दस्य चासादृश्येऽपि दर्शनान्न लक्ष्येत । यदि हीवशब्दः सादृश्यमेव विद्योतयति तदा लिम्पतिक्रियायाः सत्त्वभूतेन तमसा सादृश्यं न संभवतीति स्वार्थाविनाभूते कर्तार-

  1. ‘स्वक्रियासिद्धा वा कुतः’ ख
  2. ‘चान्यदपेक्षितं’ क, ‘वान्यदपेक्षितं’ ख
  3. ‘साचिव्यादिभिः’ क ख
  4. ‘यत्तटं’ क
  5. ‘क्रियावचनत्वान्मुख्या नापि क्रियाकर्तारः सादृश्येन’ क
  6. ‘उपचरिता’ क, ‘उपचरितः’ ख