तद्रूपेण रसस्य निष्पत्तिर्यथा—
अत्र दशस्थस्य रामवियोगादुत्पन्नस्तद्गुणस्मरणादिभिरुद्दीपितश्चिन्तासंतापादिर्वागारम्भेण चानुषज्यमानः शोकरूपेण रसो निष्पद्यते ॥
तद्रूपेण रसस्य निष्पत्तिर्यथा—
अत्र यद्यपि 433विभावानुभावव्यभिचारिसंयोगलक्षणाया रसनिष्पत्तेः 'अधिकमतिरुषातिलोहिताक्ष्या’ इति प्रकर्षनिमित्तमतिशब्दोपादानं विद्यते, तथाप्युत्तमनायिकाश्रयः प्रियविषये न रोषः प्रकर्षमासादयति ॥
तद्रूपेण रसस्य जन्म यथा—
अत्राभिवादनप्रश्नाश्वासनसमादेशनाद्रिशिखरारोहणेष्टदेवता434स्मरणानां