581
तद्रूपेण रसस्य जन्म यथा—
‘करिमरि अआलगज्जिरजलआसणिपउणपडिरओ एसो ।
पइणो धणुरवकंखिणि रोमंचं किं मुहा वहसि ॥ २५ ॥’
[बन्दि अकालगर्जनजलदाशनिपतनप्रतिरव एषः ।
पत्युर्धनूरवाकाङ्क्षणशीले रोमाञ्च किं मुधा वहसि ॥]
अस्यापि सात्त्विकत्वादन्यानुबन्धादयो न जायन्ते ।
मदप्रमदपीडादेर्वैस्वर्यं गद्गदं विदुः ।
तद्रूपेण रसस्य निष्पत्तिर्यथा—
‘पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे
ततत्यज दुदुद्रुतं भभभभाजनं काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः
प्रगे हसितहेतवे सहचरीभिरध्येयत ॥ २६ ॥’
449अत्रापि सात्त्विकत्वान्निष्पन्नो नान्यैरनुबध्यते ॥
वप्रुर्जलोद्गमः खेदो रतिघर्मश्रमादिभिः ॥ १४३ ॥
तद्रूपेण रसस्य जन्म यथा—
अत्रापि पूर्ववदन्यानुषङ्गो न भवति ॥
रागरोषभयादिभ्यः कम्पो गात्रस्य वेपथुः ।
तद्रूपेण रसस्य जन्म यथा—
‘मा गर्वमुद्वह कपोलतले चकास्ति
कान्तस्वहस्तलिखिता मम मञ्जरीति ।