587
अत्र—
‘प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥ ४३ ॥’
486इत्यादेर्देवर्षिवाक्यादुद्भूतः487 प्रहर्षाकारो गुरुसंनिधौ लज्जितया लीलाकमलपत्रगणनव्याजेन488 गौर्या गोप्यते ॥
सुखदुःखादिजनितो मोहश्चित्तस्य मूढता ।
तद्रूपेण 489रसनिष्पत्तिर्यथा—
‘कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना-
द्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
490कोऽयं का वयमत्र किं नु सुरतं स्वल्पापि मे न स्मृतिः ४४’
अत्र स्थायिनी रतिर्मोहनिष्पत्त्या प्रकृष्यते ॥
संमोहानन्दसंभेदो मदिरादिकृतो मदः ॥ १५३ ॥
तद्रूपेण रसस्य निष्पत्तिर्यथा—
‘घूर्णमाननयनं स्खलत्कथं खेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ ४५ ॥’
अत्र नयनघूर्णनाकारणस्मितादयः संमोहानन्दसंभेदा491दुद्भवन्तो मदं निष्पादयन्ति ।
मनःप्रसादो हर्षः स्यादिष्टावाप्तिस्तवादिभिः ।