अत्र दृष्टेः प्रत्यग्रोन्मेषजिह्मतादिभिः प्रबोधो नाद्यापि निष्पद्यत इति प्रतीयते ॥
उक्ता भावादिभेदेन तेऽमी रत्यादयो रसाः ।
अथैतेष्वेव केषांचिद्विशेषानभिदध्महे ॥ १६३ ॥
तत्र
शृङ्गारवीरकरुणरौद्राद्भुतभयानकाः ।
बीभत्सहास्यप्रेयांसः शान्तदान्तोद्धता रसाः ॥ १६४ ॥
रतिर्निसर्गसंसर्गौपम्याध्यात्माभियोगजा ।
संप्रयोगाभिमानोत्था विषयोत्था च कथ्यते ॥ १६५ ॥
प्रीतिरप्येवमेव स्यान्न त्वस्यां सांप्रयोगिकी ।
530आभ्यासिकी तु तत्स्थाने तदुदाहृतयो यथा ॥ १६६ ॥
‘मृतेति प्रेत्य संगन्तुं यया मे मरणं मतम् ।
सैवावन्ती मया लब्घा कथमत्रैव जन्मनि ॥ ६६ ॥’
अत्र स्थायिनो विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति रतिरेव शृङ्गाररूपेण निष्पद्यते । अत्रावन्त्या वासवदत्ताया आलम्बनविभावभूतायाः सकाशादुत्पन्नो वत्सेश्वरस्य रतिस्थायिभावः, तस्याः पुनर्जीवनादिभिरुद्दीपनविभावैरुद्दीप्यमानो मृतेत्यादिना वागारम्भानुभावेनानुमीयमानैर्हर्षधृतिप्रभृतिभिः सुखात्मकैर्व्यभिचारिभिः संसृज्यमानः करुणानन्तरः संभोगः शृङ्गाराख्यां लभते ॥