600
अत्र जन्मान्तरवासनया निसर्गत इयं भवति ॥
सांसर्गिकी यथा—
‘भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वस्पृष्टं559 यदि किल भवेदङ्गमेभिस्तवेति ॥ ८१ ॥’
अत्र शैत्यसौरभादिभिर्विरहिज560नोद्वेजनीया अपि वायवः प्रियतमाङ्गसंसर्गसंभावनया 561समाश्लिष्यन्त इति संसर्गत इयं भवति ॥
औपमानिकी यथा—
‘अपि जनकसुतायास्तच्च तच्चानुरूपं
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
रभिनवशतपत्त्रश्रीमदास्यं562 प्रियायाः ॥ ८२ ॥’
सेयं सीताविषयिणी रतिस्तदुपमानदर्शनेन रामं 563रमयति ॥
आध्यात्मिकी यथा—
‘कामं564 प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मे चेतः ॥ ८३ ॥’
अत्र सेयं दुर्वाससः शापाद्विस्मृतविवाहादिवृत्तान्तस्य दुष्यन्तस्य शकुन्तलायां रतिरध्यात्मं भवति ॥