रूढिच्युतमिति । शक्तिमनपेक्ष्य प्रयुक्तं रूढिच्युतम् । अत एव यदभिसंधाय प्रयुज्यते न कथंचन यस्यासावर्थ इति अन्वर्थमन्यार्थमिति नाम । एतदेव धातुविशेषोऽवान्तरमुपसर्गविशेषयोगतो योगवानित्यादिनान्यैरुक्तम् । विभजन्त इति । भजिः सेवार्थो विरुपसर्गस्तद्गतविशेषद्योतकस्ततश्च यथा विद्योतत इति । अत्र विशिष्टधात्वनुरूपप्रयोगाभिधानं तथात्रापि भविष्यतीति भ्रमो बीजमत्र शब्दशक्तिस्वभावात् । क्वचिदुपसर्गोपसंदानेन धातुरर्थान्तर एव वर्तते । यदाहुः—‘उपसर्गेण धात्वर्थो वलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥’ इति । तदाह—अत्र विभजतेरित्यादि । नन्वर्थापेक्षित्वे पदार्थदूषणमेवंविधमिति वामनः । नैतत् । पदस्यैवान्वयव्यतिरेकवत्त्वात् । नह्यत्रान्वयस्यापराधः कश्चित् । किं तु 008 शब्द एव वृत्तिस्खलितादिभिरपराघ्यति । यदि चार्थापेक्षितामात्रेणार्थदोषत्वं कथमसाधुप्रभृतीनामपि शब्ददूषणता । नहि तानि स्वरूपत एव तथापि त्वर्थविशेषो विशेष एवाश्वगोश्वादिवदिति। अर्थदोषास्तु यथा भवन्ति तथा वक्ष्याभः ।