श्लाघ्यैरिति । उत्कर्षवानुदात्तो लोके प्रसिद्धः । बहूनां मध्ये यः श्लाघते स उत्कर्षवान् । तेन श्लाघ्यत्वमुदात्तलक्षणम् । तदिह काव्ये वाक्यार्थपोषाधायकतया सहृदयहृदयावर्जनक्षमत्वेन श्लाघाविषयत्वे विशेष्यत्वं च वाक्यार्थोऽतस्तद्विशेषणपदेषु यथोक्तरूप उत्कर्षोऽभिमतोऽनुदारश्चायं गुण इति स्वरूपविशेषकृतात्कान्तिशरीरान्तर्गताच्चमत्कारित्वाद्भिद्यते । नचात्र मुहतिरभिमतेति नैकमपि कान्तिरूपमस्ति । अत एव पुराणच्छायमुदाहरति—श्रुत्वेति । श्रुतिमात्रेणेयं दशा दर्शने तु न ज्ञायते कथं भविष्यतीति । यमिति । न ह्यन्यस्य श्रुतमात्रस्य तादृशप्रभावसंभावना । सहसेति यावत्क्रीडासहचराणां धवलगृहादीनामपि च प्रेमानुरूपमापृच्छ्यते तावानपि समयो न लब्ध इति ध्वन्यते । आगतमिति निष्ठाप्रत्ययेन चेदिच्छति सिद्धमेवागमनमिति द्योतयति—निजेति । यस्यान्येन धर्षणं स्वप्नेऽपि न बुद्धिविषय आसीत् । सोपद्रवस्यापि यस्य न त्यागः कदापि कथंचिदभूदिति व्यज्यते । निर्गच्छतामिति हृदयवमुख्येन पुनः पुनरवतिष्ठमानानामसंभवद्रूपं निर्गमनमिति 059 द्योत्यते । शत्रूणामिति बहुवचनेन यदैकावस्कन्दमुद्दिश्यायं प्रचलति तदा सर्वेषामियं दशा भवतीति प्रत्याय्यते । अत एवासमासः सजीवः । वियोगवेदनादूनमानसानामुद्गतोऽपि बाष्पस्रावादन्तरेव विच्छिद्यत इति लवपदेन ध्वन्यते । पुनः समागमाशंसनशीलानाममङ्गलभिया बाष्पस्तम्भो लवपदरहस्यमित्येके मन्यन्ते । अन्यस्य बाष्पस्य निर्गमनानुपपत्तौ पुटयोरार्द्रभावमात्रम् । शुभ्र इति यत्र चन्द्रातपेन पल्लविताः कान्तयः क्षणदाविलासविहारेषु कामपि रसमात्रामुत्कर्षयन्तीति व्यनक्ति । तदनन्तरमेव व्याप्यामित्याह—नवाम्भोरुहीति । पूर्ववत्संभोगोद्गारः । सशाद्वल इत्यनेन रतिकुतूहलोत्कण्ठितानामद्रिशृङ्गारोहणश्रान्तानां तदेवास्तरणमिति प्रकटीक्रियते । विवलितग्रीवतया च पभ्द्यां पलायनमेव न तु शरीरवलनमपीति । शृङ्गाराद्भयानक एव रसः स्थायीति ध्वनितम् । तदेतत्सर्वमभिप्रेत्याह—अत्रेति ॥

अरीतिमत्करणोक्तमभिप्रेत्यौजोलक्षणमाह—