009 सति बाधहेतौ बुध्यमानस्य त्यागायोगाद्योगविशिष्टमेंवोपाधिमभिधत्ते । यथा—पङ्कजमिति । तत्राद्यप्रकारे रूढिरेव सर्वस्वमिति तत्परित्यागे रूढिच्युतम् । द्वितीये तु योगमात्रे प्रयुक्तमसंगतं शक्तिशून्ये प्रयुक्तं शत्त्क्यैकदेशे प्रयुक्तमिति भिन्नोऽर्थस्तदेतत्सर्वं व्याख्यानेन स्फुटयति—अत्र जलधरेति । जलधरादिपदानि जलधारणादिविशिष्टे मेघत्वादौ रूढाभिधानशक्तीनि । कथमेतदवसितमिति चेत्तत्राह—लोकप्रसिद्धमिति । लोकाधीनावधारणत्वाच्छब्दार्थसंबन्धस्येति भावः । ततश्च यद्विशिष्टस्य योगस्य शक्तिविषयतया न तेन संकेतः । यत्र च समुद्रादौ प्रयोगो न तदुपाधिभिः समुद्रत्वाद्यैः संभूय शत्त्क्या संकेतः । क्षारादिपदोपसंदानेन च समुद्रादौ प्रयोग उन्नीयत इत्याह—तदिहेति । अत एव न तदवस्थस्य पदं वाचकमत एव चाक्षमत्वादसमर्थमिति संज्ञयैव व्यवह्रियत इति संक्षेपः ॥

अप्रतीतं तदुद्दिष्टं प्रसिद्धं शास्त्र एव यत् ॥ १० ॥

यथा—

‘किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः ।
गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥ ८ ॥’

अत्र रूपस्कन्ध-नान्तरीयकशब्दयोः शास्त्रप्रसिद्धत्वादन्यत्राप्रतीयमानयोः प्रयोगादप्रतीतम् ॥

अप्रतीतमिति । शास्त्रमात्रप्रसिद्धं शास्त्रव्यवहारिमिः संकेतितमित्यर्थः । प्रतीताप्रतीतसमभिव्याहाररूपं हि वाक्यमशास्त्रज्ञविषयं प्रयुक्तमभिमतार्थप्रतीतिं न जनयितुमीष्टे । तत्राप्रतीतानामेवापराधोऽतः परिस्खलनखेददायितया भवति दुष्टत्वम् । अत एवाप्रयुक्ताद्बहिर्भावः । किं भाषितेनेति । रूपस्कन्धवाचोयुक्तिः सौगतसमयप्रसिद्धा । तेषां रूपं वेदना संज्ञा संस्कारो विज्ञानमिति पञ्चस्कन्धाः । तत्रापि रूपस्कन्धपदार्थ एकादशपदार्थकः । पञ्चेन्द्रियाणि पञ्च विषया विज्ञप्तिरेकादशीति प्रक्रिया । अन्तरमिति विनार्थे गहादौ पठ्यते । ‘तत्र भवः’ इति छे स्वार्थिके च कनि नञ्समासे पृषोदरादित्वान्नलोपाभाव इति भाष्यटीका । प्रेम्णो व्यापका गुणा न सन्ति मे न च व्यापकमन्तरेण व्याप्यं भवतीति व्यापकानुपलब्धिप्रयुक्तत्वात्प्रेमाभावस्य तथोपालम्भे वाच्यता नास्तीति भावः । शास्त्र एवेत्यवधारणेन यव्द्यावर्त्यते तदाह—अन्यत्रेति । लोक इत्यर्थः ।