079
रूढाहंकार11तौर्जित्यम्

यथा—

‘उमा वधूर्भवान्दाता याचितार इमे वयम् ।
वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥ १०९ ॥’

अत्रेमे वयमित्यात्मान्वितव्रतचर्यादिसमुत्थप्रौढाहंकारप्रतिपादनादौर्जित्यम् ॥

रूढेति । ऊर्जितशब्दोऽहंकृते प्रसिद्धस्तात्कालिकनिमित्तोपनिपाते वासनाविकासात्तमोनिर्भेदस्थानेषु सुप्तप्रबुद्ध इव स्थायिभिरसंसृज्यमानः प्रथमप्रादुर्भूतोऽभिमानोऽहंकार इत्युच्यते । रूढः सूक्ष्मावस्थातो द्वितीयामाविर्भावदशामापन्नोऽहंकारो यस्य स रूढाहंकारस्तस्य भावस्तत्ता । सुगममुदाहरणम् ॥

प्रेयस्त्वर्थेष्वभीष्टता ।

यथा—

‘रसवदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ ११० ॥’

अत्रामृतप्रभृतिम्यः प्रियादशनच्छदस्याभीष्टताप्रतिपादनं प्रेयः ॥

प्रेय इति । शब्दगुणे तु निप्पादितवर्णनीयप्रीतिजनकत्वं पदानामुक्तम् । इह तु वाक्यार्थस्य वक्तृप्रीतिगोचरत्वमुच्यत इति विशेषः । प्रीतिरुक्तपूर्वा । तत्रैवाभिशब्देन प्रकर्षो द्योतितः । अभीष्टता प्रेय इति प्रेयःपदप्रवृत्तिनिमित्तम् । रसवदिति । प्रशंसायां मतुप् । अमृतमिति यस्य प्रसादात्त्रिदशैरमरत्वमासादितं नान्यथेति प्रत्यक्षसाक्षिके वस्तुनि प्रमाणान्तरानुसरणम् । प्रसन्नरसमिति अम्लतालक्षणकाव्यार्थापगमेन परिणतिरित्यादि ॥

  1. ‘मौर्जित्यम्’ क-ख