080
अदारुणार्थपर्यायो दारुणेषु सुशब्दता ॥ ८३ ॥

यथा—

‘देवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कर्णे च यशोऽवशेषे ।
लक्ष्मीसहायस्य तवाद्य वत्स वात्सल्यवान्द्रौणिरयं सहायः ॥ १११ ॥’

अत्र मुमूर्षामरणादीनां दारुणार्थानां दीर्घनिद्रां वाञ्छति यशोऽवशेष इत्यादिभिः सुशब्दैः पर्यायेण भणनं सुशब्दता । सा च मुख्यार्थव्यतिक्रमस्य वाक्यार्थत्वान्न शब्दगुणः ॥

अदारुणेत्यादि । झटित्यातङ्कदायी दारुणस्तस्य साक्षादभिधाने विवक्षितप्रतीतिस्खलनखेदसंभवात्तदुपनीतस्य वस्तुनस्तदध्यासान्तरितस्य वाक्यार्थत्वादिति । सर्वत्रैव हि लक्षणायामर्थाध्यासोऽङ्गीक्रियते । लौकिकी चेयं लक्षणेति न प्रयोजनगवेषणमपीति । सुगममुदाहरणम् ॥

व्याजावलम्बनं यत्तु स समाधिरिति स्मृतः ।

यथा—

‘दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ ११२ ॥’

अत्र गमने सति प्रियजनावलोकनाभिलाषिण्याः शकुन्तलाया दर्भाङ्कुरचरणक्षतिवल्कलव्यासङ्गादिव्याजावलम्बनं समाधिः ॥

व्याजेति । चित्तवृत्तिषु बलादाविर्भवन्तीषु प्रकृतरसौचित्यविरोधिप्रकर्षात्प्रकटमनावरणीयासु च यदन्यथा समर्थनं तव्द्याजावलम्बनं प्रस्तुतोचितसमाधानात्मकत्वात् । तथा हि—पूर्वानुरागे त्रपासाध्वसविवशायास्तावन्नायकसमीपादपसरणमौचित्यापन्नम् । अनन्तरं तूत्कण्ठातरलितायाः कथमालोकमात्रेणापि कृतार्थः स्यादिति परावर्तनम् । तत्र च मौग्ध्यभङ्गशङ्कायां दर्भाङ्कुरक्षतिप्रभृतिव्याजावलम्बनमेव कार्यसर्वस्वभाभासत इति ॥