081
सौक्ष्म्यमित्युच्यते तत्तु यत्सूक्ष्मार्थाभिदर्शनम् ॥ ८४ ॥

यथा—

‘अन्योन्य12संवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम् ।
लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ॥ ११३ ॥’

अत्रान्योन्यसंवलितमांसलदन्तकान्तीत्यादिवाक्ये दंपत्योरनुरागलक्षणस्य सूक्ष्मार्थस्य दर्शनात्सौक्ष्म्यम् ॥

सौक्ष्म्यमिति । सूक्ष्ममित्यादिवाक्यैकगोचरोऽर्थः कुशाग्रीयबुद्धितया सूक्ष्म- स्तस्य दर्शनमुपायवैलक्षण्यात्तत्तद्विशेषवतः प्रत्यक्षायमाणता । सूक्ष्मालंकाराद्भेदस्तृतीये करिष्यते । स चायं भाव्यो वासनीयश्च । भावनामात्रगम्यो भाव्यो यथा—

‘उच्चइ आगमहि आवड्ढ सिज्जन्तरो सपरिआरम् ।
पाणौ पसरन्तमत्ताचंवफलिहचसअम्भुहं बाला ॥’13

एकाग्रताप्रकर्षगम्यो वासनीयस्तमुदाहरति—अन्योन्येति । व्याजापसृतपरिवारे लीलावेश्मनि तत्कालकलितमन्मथोन्माथं विदग्धमिथुनमुत्तरोत्तरमपनीयमानत्रपासाध्वसतया प्रतिकलं नवेन्दुवत्कान्तिविशेषमासादयति । विचित्रमव्यभिचार्यनुप्रवेशे हर्षरुदितस्मितादीनामव्यवस्थिततया व्यतिरेकरूपकिलकिञ्चिताख्यशृङ्गारभावोन्मेषः ॥

शास्त्रार्थसव्यपेक्षत्वं गाम्भीर्यमभिधीयते ।

यथा—

‘मैत्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोध्दुम् ॥ ११४ ॥’
  1. ‘संचलित’ इति सटीकपुस्तके; ‘संमिलित’ ग
  2. ‘उच्यारागच्छेरावर्धय सिद्धान्तरः सपरिवारम् । पाणौ प्रसरन्त... ... ... ... ... ...बाला’ इति च्छाया