यदिति । संशायकजातीयस्य संदेहजनकत्वं नाम दूषकताबीजम् । तद्यदिकुतश्चिद्विशेषाद्विवक्षितप्रतीतिरप्रत्यूहमुपपद्यते तदा भवत्येव दोषाभावः । विशेषावगमो विशेषदर्शनं तस्यैव संशयविरोधित्वात् । महीभृत इत्यादावपत्यशब्दो यद्यपि गौरीशब्दोऽपि तदितरदत्तपद इति संशायकजातीयो भवति, तथापि तच्छब्दोपस्थापित एव विवक्षितविशेषे पर्यवस्यन्नपजहाति दोषत्वम् । तच्छब्द एव कथं तमर्थमुपनयतीत्यत्र तु प्रकरणमेव जाग्रदवस्थमस्ति । मेघच्छविरित्यत्र तु यद्यपि मेघपदं श्यामाश्यामदत्तपदतया संशायकजातीयम्, तथापि प्रसिद्धपदनीलवर्णार्थगौरीपदसमभिव्याहाराच्छब्दान्तरसंनिधिरपि विशेषे नियमयति तद्वा छविपदं वा विशेषे पर्यवस्यति । अत्र प्रकरणादीनां विशेषस्मृतिहेतुत्वात् । अत एव सूत्रे बहुवचनादिपदानुपादानादनुपात्तास्तदेतदभिसंधाय व्याचष्टे—अत्रेत्यादि । एवं नवमेघच्छविरिति चोक्ते यथा नियमेनार्थप्रतीतिरप्रत्यूहा भवति तथा मेघच्छविरित्युक्त इति । अत एव कविसमयप्रसिद्धविशेषावगमसामग्रीसंपादनेन गुणत्वमिति । कथं पुनरिदं क्लिष्टस्य वैशेषिकं न भवति को वाक्यभूतेन भवति । किं तु संशायकत्वमापादयतः प्रतिभासोऽप्युक्तयुक्त्या निवर्तत इत्यभिमतम् । न चैवंरूपता क्लिष्टवैशेषिके संभवति । एकस्यैव चित्रपदस्य संशयशक्तिरिति न वाक्यार्थगामिता ॥