097

अप्रयोजकमिति । तदेव कविभिरुपादीयत इति यदभिप्रेतसंधिमाधत्ते । यत्र वाक्यार्थप्रविष्टमपि न तथाभावमासादयति तदप्रयोजकमित्युक्तम् । तस्य यदि विशेषस्वरूपाभिधाने पर्यवसानेन प्रयोगो न तर्हि दोषः । तथा हि—आकाशमित्यादौ नातिश्यामतारूपं विशेषमाकाशे कांचिदपि विशेषमात्रामुन्मुद्रयति, आकाशस्य सर्वदा तद्रूपानपायात् । एवमसमग्रस्य सहस्रत्वाभावात्साग्रमित्यपि न विशेषाधायकम् । आकाशसहस्रयोस्तु यदेव रूपभावेदनीयमित्यत्रैतावन्मात्राभिप्रायेण नास्ति दूषणम्, तथापि नान्तरीयकयोरभिधाने किं प्रयोजनं येनानयोर्गुणभावसंपत्तिरित्यत आह—दूर इति । अतिदूरे श्यामत्वमधिकं प्रतिभाति । क्षणमात्रमपि न विरतिरासीदिति साग्रपदाभिप्रायोऽत एव नात्र पौनरुक्त्यम् । तर्हि वाक्यार्थे विशेषाधायकत्वमेवानयोरिति कथं दूषणत्वसंभावना । इत्थम् । यस्मिन्ननुपादीयमानेऽपि नाभिमतन्यूनता तत्पदमप्रयोजकम् । अस्ति चात्र द्वयोरपि तज्जातीयतायां दोषत्वप्रसङ्गः । स प्रकृतोपयोगविवक्षायामेव निवर्तते । सर्वथा प्रकृतानुपयोगे दूषणत्वानपायिता । अस्ति चात्रोचित एवोपयोगो यो विवक्षितुमर्हतीत्याह—विवक्षायामिति ॥

यदव्युत्पत्तिमद्देश्यमिति पूर्वं निरूपितम् ।
महाकविनिबद्धं सत्तदप्यत्र गुणी भवेत् ॥ १०४ ॥

यथा—

‘षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला-
मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः ॥ १३८ ॥’
‘पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवम् ॥ १३९ ॥’
‘किरन्तः कावेरीलडहलहरीशीकरकणान् ॥ १४० ॥’

अत्र तल्लगल्ललडहलहरीप्रभृतीनामव्युत्पत्तिमत्त्वेनोद्देश्यत्वेऽपि महाकविभिरङ्गीकृतत्वाद्गुणत्वम् ॥

यदिति । संदर्भच्छायावैषम्यमत्र कष्टताबीजमिति पूर्वमुक्तं तत्र यदि समानच्छायशब्दमध्यनिवेशनेन प्रतिक्षिप्यते तदा कथं दोषः । तथाभूतानामेव पदानां संदर्भनिर्वाहकतया महाकविनिबद्धमिति । अत एव शब्दगमकतया गुणत्वलाभः । उद्दण्डत्वेन पिण्डीतगराणां कठोरता । तादृशानामपि तरलनेन प्रौढिः । उत्ताले-