यत्न इति । क्रमभ्रंशे हि यथाभिमतान्वयप्रतीतिप्रत्यूहो दूषकताबीजम् । तद्यदि कुतश्चिद्विशेषादस्खलितैव प्रतीतिरुपजायते तदा बीजाभावेन तथाभावो निवर्तत एव । स च विशेषः प्रतिपदमनुक्रमितुं न शक्यते इति कोऽपि यत्न इति सामान्येन प्रतिपादितम् । सोऽयं शब्दक्रमलङ्घनापवादः । अर्थक्रमलङ्घने त्वभि-106 प्रायविशेषः । तथा हि—बन्धुत्याग इत्यादौ बन्धुत्यागतनुत्यागदेशत्यागान्कमेणोद्दिश्य तथैवानुदेशोऽप्यर्हति न त्वादिममुद्दिश्य ततोऽन्त्यस्ततो मध्य इति उद्देशानुदेशलक्षणशास्त्रक्रमभ्रंशजातीयत्वेऽपि संबन्धज्ञानहेतुयत्नकरणाददूषणत्वं व्यवस्थाप्यते । यत्नश्चायमेव यदादिपदैरुल्लेखः । तानि हि तत्तत्स्थानविशेषगामिन एव प्रतीतिमुपजनयन्ति । अवश्यं चानेन क्रमेणात्र वक्तुमुचितं तनुत्यागस्य विजातीयताविवक्षया पृथगेव वक्तुमर्हत्वात् । एवं चानुपपत्तिर्लोके बन्धुत्यागापेक्षया शरीरत्यागस्यातिकृच्छ्रत्वेन प्रसिद्धिः । अतश्च ‘मध्यम आयतक्लेश आद्यन्तौ क्षणिकज्वरौ’ इति वचनमुचितमिति आर्थक्रभमभ्रंशः कथं न भवति तत्राह—वक्तुश्चेति । अभिमत49मित्यनेनाभिप्रायविशेषोऽपवादहेतुः—‘यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासो व्यर्थ एकस्मिन्ननुसंधानसाधितः ॥’ इत न्यायादुपपन्नमेवैतदिति ॥

  1. ‘मतत्वादि’ इति स्यात्