106 प्रायविशेषः । तथा हि—बन्धुत्याग इत्यादौ बन्धुत्यागतनुत्यागदेशत्यागान्कमेणोद्दिश्य तथैवानुदेशोऽप्यर्हति न त्वादिममुद्दिश्य ततोऽन्त्यस्ततो मध्य इति उद्देशानुदेशलक्षणशास्त्रक्रमभ्रंशजातीयत्वेऽपि संबन्धज्ञानहेतुयत्नकरणाददूषणत्वं व्यवस्थाप्यते । यत्नश्चायमेव यदादिपदैरुल्लेखः । तानि हि तत्तत्स्थानविशेषगामिन एव प्रतीतिमुपजनयन्ति । अवश्यं चानेन क्रमेणात्र वक्तुमुचितं तनुत्यागस्य विजातीयताविवक्षया पृथगेव वक्तुमर्हत्वात् । एवं चानुपपत्तिर्लोके बन्धुत्यागापेक्षया शरीरत्यागस्यातिकृच्छ्रत्वेन प्रसिद्धिः । अतश्च ‘मध्यम आयतक्लेश आद्यन्तौ क्षणिकज्वरौ’ इति वचनमुचितमिति आर्थक्रभमभ्रंशः कथं न भवति तत्राह—वक्तुश्चेति । अभिमत49मित्यनेनाभिप्रायविशेषोऽपवादहेतुः—‘यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासो व्यर्थ एकस्मिन्ननुसंधानसाधितः ॥’ इत न्यायादुपपन्नमेवैतदिति ॥

विरूपसंधि यत्पूर्वं विसंधि च निरूपितम् ।
न च दुर्वचके प्रायः प्रगृह्यादौ च दुष्यति ॥ ११३ ॥

तत्र दुर्वचके विरूपसंधिर्यथा—

‘जयन्ति वर्षास्विति भर्गदुर्गयोः सुदुर्वचा दुर्वचकप्रयुक्तयः ।
अभेण्नगेड्जे खमपोग्रभोग्ररुग्ध्रुड्भ्रमब्रुण्मुखि सध्र्यगेधि नः ॥ १५३ ॥’

अत्रोत्तरार्धस्य विरूपसंधित्वेऽपि दुर्वचकत्वेन कलाविद्भिराद्दतत्वाद्गुणत्वम् ।

यदाहुः—

‘शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये ।
प्रहासाय च गोष्ठीषु वाच्या दुर्वचकादयः ॥ १५४ ॥’

प्रगृह्यादौ विगतसंधिर्यथा—

‘कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः ।
स इतोऽब्दऋतावृतप्रियो न ऋचस्त्वं न यजूंषि ऊहसे ॥ १५५ ॥’

अत्र विसधेः प्रगृह्यादिहेतुकत्वाद्गुणत्वम् ।

  1. ‘मतत्वादि’ इति स्यात्