114

यथा—

‘दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥ १६० ॥’

अत्र ‘यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते इति वक्तव्ये, येयं वीराद्भुतरसवशप्रवृत्तेन ‘वदन्त एव हि वयं रोमा ञ्चिताः पश्यत’ इति वाक्येन प्रकृतवाक्योक्तेरसमाप्तावेव ‘विप्राय इत्यादिपदविच्छित्तिः सा रसान्तरतिरस्कृतिरित्युच्यते । तया चेदं वाक्यान्तरसगर्भमपि वाक्यं न दोषाय भवति ॥

वाक्यान्तरेति । रसान्तरं रसविशेषः प्रकृतरसानुसंहितो रसस्तेन तिरस्कारो दोषभावस्य, तस्मिन् सति तथाकृतं वाक्यमिष्टमेव कवीनामुपादानयोग्यमेव अन्यथा नेष्टं दुष्टमेवेत्यर्थः । तेनायमर्थो भवति—प्रकृतरसतिरोधायकत्वं किल दूषणताबीजं तदतिरोधानेनैव निवर्तते । प्रत्युत द्वितीयपरिच्छेदे वक्ष्यमाणगर्भादिवाक्ययोजनप्रकारसंपत्तावलंकारलाभे गुणत्वं भवति । तथा हि—दिङ्मातङ्गानां घटया विभक्ताः पृथगुद्भिद्य व्यवस्थापिताश्चत्वार आघाटा यस्यां सा, तथा तेन ‘सप्तद्वीपा वसुमती साध्यते’ इति विवक्षितम् । ये तावद्भरतभगीरथप्रभृतयः प्रथितप्रतापातिशयास्तेषां तद्दूषणपरिनिष्ठितशक्तीनामेकस्यापि समस्तक्षत्त्रवंशोन्मूलनेन नवखण्डमेदिनीसिद्धौ नोत्साहशक्तिः श्रवणगोचरतामयासीदिति लोकोत्तरा परशुरामस्योत्साहशक्तिरावेद्यते । 'सिद्धा सा च’ इत्यनेन यावदभिलषितं तावदेव सिद्धमित्यहो विजिगीषुतेति पूर्ववदेवाभिप्रायः । न चेदसौ सिद्धिमभिसंधाय प्रवृत्तः । अनुपदमेव सा संपन्नेति चकारेण द्योत्यते । एवमभिहिते ‘विप्राय57’ इत्यादिकमस्ति वाक्यशेषभूतम्, तद्विच्छिद्यैव मध्ये ‘वदन्त एव हि वयं रोमाञ्चिताः’ इति वाक्येन सगर्भता, सा न दोषाय । अनेन हि वाक्येन लोकोत्तरवस्तुभावनात्मकविभावसंपत्तौ प्रादुर्भवन् वक्तुमभिमतो रसो व्यज्यते । स च वीरानुसंधानहेतुर्वीराद्भुतयोः समानभूमिकयोरन्योन्यानुगमनेन प्रतिकूलता विरहता । तत्र यथा शृङ्गाररौद्रबीभत्सानामेक-

  1. ‘ऽभिप्राये’ इत्यादर्शे पाठ आसीत्