117 सोपमा’ इति प्रबन्धेनाग्रतो वक्ष्यामः । उपलक्षणं चैतत्—यदुपमायामेव लिङ्गवचनभेदो न दूषणमिति । तस्य सर्वालंकारसाधारणत्वात्केवलं 59सादृश्यमलंकार इति दर्शने उपमायामुदाह्रियते ॥

प्राज्येति । आर्हतानां नेमिनामा जिनविशेषोऽन्ये जिना ऋषभनाथप्रभृतयः प्राज्यमुचितं तथाभूतः प्रभावः सिद्धिरूपो यस्य तादृशो नेमिः शिवं ददतां ददातु । 'दद दाने’ इति धात्वनुसारात् । कस्मै इत्यपेक्षायां मुक्तात्मा इत्यत्र नः । पक्षे वो60 युष्मभ्यं शिवं ददतां ददत्विति । धर्मस्य 61प्रभवमुत्पत्तिनिमित्तं नेमिः । प्रभवः प्रभुता यथावदनुशासनेन जिनाः । रजश्च तमश्च रजस्तमसी ते अस्ते क्षिप्ते येन स तथाभूतो नेमिः । अस्तं रजो यैस्तेऽस्तरजसस्तेषु प्रकृष्टास्तमप्यरजस्तमाः । मुक्तो निरावरण आत्मा आत्मशब्द आत्मवचनः स्वरूपवचन इति वा बहुव्रीहिस्तादृशो नेमिः । जिनास्तु मुक्तात्मान इति स्पष्टम् । तदिह वचनभेदमन्तरेण वचनश्लेषाभावाद्भिन्नवचनत्वस्यावश्यकत्वेन दोषः । श्लेषलक्षणालंकारघटनया गुणत्वम् । ननु च लिङ्गादिभेद उपमाया दूषणत्वमुक्तम्, इह त्वलंकारान्तर उदाह्रियते, तत्कथं पूर्वापरसमञ्जसत्वम् । न चात्रोपमा संभवति, तत्सामग्र्यसंभवात् । उपमानोपमेयसाधारणधर्मेवादिशब्दाः किल तद्धटकाः । तदत्र त्रितयसंबद्धे62 त्वपीववद्वाप्रभृतिंशब्दानुपादानात्कथमुपमेति शङ्कामुत्थाप्य निरस्यति—न चेति । इवादयो हि शब्दाः सादृश्यद्योतकाः । तथा च क्वचित्प्रसिद्धस्य प्रकृते संबन्धप्रतीतिस्तेभ्यो भवति बिम्बप्रतिबिम्बन्यायाश्रयणात् । एवं च न युगपत्तुल्यरूपसंबन्धः । अपिशब्दस्तु युगपत्तुल्यरूपसंबन्धं बोधयतीति विभिन्नविषयत्वम् । नहीवादिशब्दाभावे सादृश्यमेव न प्रतीयते, लुप्तोपमाप्रपञ्जभङ्गप्रसङ्गात् । अन्यत एव प्रतीतिसिद्धेरुपायान्तरवैयर्थ्यात् । किमितीह नेवादिपदं प्रयुक्तमिति प्रश्नोऽवशिष्यते तत्रेदमुत्तरम्—इवस्येत्यादि । नेमिरन्येऽपीत्यपिशब्देन समुच्चयोऽप्यवसीयते । स च युगपदेकसंबन्धाभिधाने निर्वहति । तेनानेकमुद्दिश्य किंचिदेकसंबन्धाभिधानं समुच्चयाभिधायिनो विषयः । एकमुद्दिश्य प्रसिद्धान्यध63र्मविधानं तु यथेवादिरिति विषयविरोधान्न प्रयुज्यत इति । स्यादेतत्— इववद्वायथादिशब्दा

  1. ‘सादृश्यमात्र’ ग
  2. ‘नोऽस्मभ्यं’ इति स्यात्; यद्वा ‘नोऽस्मभ्यम्’ पक्षे ‘वो युष्मभ्यम्’ इत्येव पाठे ‘प्राज्यप्रभाः’ इति प्रथमान्तमपि पृथक् कल्पनीयम्
  3. ‘प्रभव उत्पत्ति—’ इति स्यात्
  4. ‘बद्धेऽपीव’ इति स्यात्
  5. ‘धर्माभिधानं तु यथेवादे’ इति स्यात्