120 विशेषस्त्विति । उपमेयांशे विशेष66विशेषणमुपादाना(?)दुपमानविशेषणात्प्रतीयते । शतह्रदा विद्युत् । उपमानत्वेनाविवक्षितत्वादित्यापाततः । उपमानविशेषणानां यावत्प्रतीति न ग्रहणमिति प्रकाशयितुं पारमार्थिकस्त्वयं सिद्धान्त इत्याह—यदि वेति । उपमानधर्मस्याधिकस्योद्धाटनमभिधानं तस्यानु पश्चान्मानं ज्ञानम् । कथमेतदित्याह—इति67 प्रसिद्धेरिति ॥

यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
न च्छन्दोभङ्ग68 इत्याहुस्तदा दोषाय सूरयः ॥ १२३ ॥

यथा—

‘जह ण्हाउं ओइण्णे अब्भन्तमुल्हासिअमंसुअद्धन्तम् ।
तह अ ण्हाआ सि तुमं सच्छे गोलाणईतूहे ॥ १६६ ॥’
[यथा स्नातुमवतीर्णे आर्द्रीभूतमुल्लासितमुंशुकार्धान्तम् ।
तथा च स्नाता भवसि त्वं स्वच्छे गोदानदीतीर्थे ॥]

अत्र द्वितीयैकादशत्रयोविंशतिवर्णानां संयोगपरत्वाद्गुरुत्वेऽपि ण्हाल्हादिसंयोगस्य तीव्रप्रयत्नोच्चारणेन 69पूर्वलघुत्वे न छन्दोभङ्ग इति गुणत्वम् ॥

यदेति । प्रयतनं प्रयत्नः स्थानकरणव्यापारस्तस्य तीव्रत्वमुद्रेकस्तत एव हि पिण्डाक्षरादीनामकठोरत्वमाभासते । आदिग्रहणादिवहिकारौ70 सानुस्वारौ च केवलौ पदान्ते वर्तमानौ तत्तद्भाषाविषयेऽवसेयौ । क्वचिदेव हि वर्णे तथावभासते न तु सर्वत्र । तदुपलक्षणमेव ‘रह वंजणसंजोए’ [ ‘रहौ व्यञ्जनसंयोगे’ ] इत्यादिकं छन्दोविचितौ दर्शितम् । जहेति । स्नातुमवतीर्णे त्वयि अंशुकार्धमुद्भ्रष्टं सदब्भन्तमार्द्रोभूतं यथा चलत्वं71 स्थितेस्तथावगम्यते न त्वन्तर्जलं जलकेलिस्थानमवतीर्ण इत्यभिप्रायशेषः । कथमन्यथा गोदावरीनद्याः स्वच्छं जलं दृश्यते इति । तूहं तीर्थम् । अत्र द्वितीयैकादशादिस्थानेषु यद्यपि संयोगात्पूर्वभावे गुरुत्वं विद्यते-

  1. ‘विशेषादिति’ इत्यादर्शपाठः
  2. इति मूले पाठः
  3. ‘भङ्गमप्याहुः’ क
  4. ‘पुनर्लघु’ ग
  5. ‘इहिकारा विन्दुजुआ’ इति प्राकृतपिङ्गलोक्त्या ‘इकारहिकारौ’ इति; ‘इहिकारौ’ इति वा पाठः
  6. ‘लब्धम्’ स्यात्