कार्याकार्येति च नामभागमुल्लङ्घ्य विच्छेदश्रव्यता च परस्य यणादेशेन ‘किंचिद्भावा’ इति ‘नृप’ इति च स्वरसंधाने विच्छेदोऽत एव श्रव्यत्वमपि । तदेतव्द्याचष्टे—अत्रेति । ‘मन्दाक्रान्ता मभनतयुगं गद्वयं वेददिग्भिः’ इति चतुर्थदशमयोर्यतिराम्नाता । पञ्चमस्थान इति । प्रथमतृतीययोर्द्वितीये तु षष्ठे यतिकरणादिति बोद्धव्यम् । ननु पदच्छेदे स्वरसंधानपठितिविरामः सोल्लेखो लक्ष्यते, न तु चतुष्पादे तथास्तीति कथं श्रव्यत्वमत आह—लुप्त इति । संधौ विकारो यत्वयलोपादिकं कार्यं, तथा च पदान्ते सति पदच्छेद एवायमिकारोऽवतिष्ठत इत्यर्थः ॥
यथा—
अत्र त्रिषु पादेषु पदानि 75क्रियापदं नापेक्षन्ते । सापेक्षं चासमर्थं भवति । चतुर्थे तु नहीत्यादिभिः सन्तीत्यपेक्षते76 न चैतावतामीषामसामर्थ्यं भवति । यदाह—‘यत्रान्यत् क्रियापदं नास्ति, 77तत्रास्ति भवतीति पदं प्रथमपुरुषे प्रयुज्यते’ इति ॥
अशरीरमिति । प्रधानाविमर्शे हि दूषणमित्युक्तं तदुपात्तानामेव पदार्थानां प्रधानगर्भीकरणे तत्प्रतिबन्धेऽवश्यविधेयमन्यं प्रति गुणीभावे वा समाधीयते । अत एव विशेषाद्गुणत्वम् । तथा हि—‘कियन्मात्रं’ ‘जानुदघ्नम्’ इत्यनयोः 78परिमितम् । क्रिया प्रधानगर्भभूता । ‘नहि सर्वे भवादृशाः’ इत्यत्र तु सत्ताक्रियायाः सकलपदार्थाव्यभिचारात् ‘अपेक्ष्यते’ इति सिद्धिः । तदिदमाचार्यमतेनाह—यत्रान्यदिति । भवन्ती वर्तमाना । तदेतद्वाक्यं क्रियाप्रधानमिति 79ददर्श ‘स80 प्रधानं
- ‘प्राशस्त्यादे’ क↩
- क्रिया विशेषक्रिया । क्रियासामान्यवाचकपदं तु ‘तिङ्समानाधिकरणे प्रथमा’ इत्युक्त्यनुसारेण प्रथमासिध्द्यर्थमपेक्षितमेव । अतएव ‘सापेक्षम्’ इत्याद्यग्रिमग्रन्थसंगतिः↩
- ‘प्रेक्ष्यते’ इति स्यात्↩
- ‘अस्तिर्भवन्तीपरः प्रथमपुरुषः’ क↩
- ‘परिमितिक्रिया’ स्यात्↩
- ‘दर्शने’ इति स्यात्↩
- ‘सा’ इति स्यात्↩