123 विशेष्यमात्रं तु वाक्यार्थे’ इति परमार्थः । तेन ‘राधा रहः साक्षिणाम्’ इत्यादावावश्यकविधेयसाक्षिभावादिगुणतया राधासंबन्धादीनां वैवक्षिकप्राधान्यानामपि प्रधानत्वाविमर्शो न दोष इत्युक्तं भवति ॥

श्लिष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपर्ययः ।
गौडीयैरिष्यते तत्तु बन्धप्राशस्त्यगौरवात् ॥ १२६ ॥

यथा—

‘लीलाविलोलललना ललितालकलालसाः81 ।
विलुप्तमालतीमाला जलकालानिला ववुः ॥ १६९ ॥’

अत्र शैथिल्यदोषेऽपि बन्धप्राशस्त्येन गौडैरादृतत्वाद्गुणत्वम् ॥

श्लिष्टमिति । पारुष्यशैथिल्याभ्यां विना कृतं श्लिष्टमित्युक्तं तस्य विपर्ययो विपरीतं वाक्यं शिथिलं भवति । परुषमल्पप्राणाक्षरोत्तरं वेत्यर्थः । एवंविधमपि चैतदनुप्राससौष्ठवात्पदानामेकताप्रतिभासे समाधीयत उद्भटानुप्रासतया च कान्तिप्राधान्ये गौडीयरीतिप्राधान्येन गुणत्वमासादयति तदिदमुक्तम्—बन्धप्राशस्त्यगौरवादिति । गौडीयैर्गौडीयरीतिगोचरहेतुवाक्प्रकर्षशालिभिः ॥ लीलेति । अत्र दन्त्यवर्णमयत्वेनाल्पप्राणाक्षरोत्तरतायामपि पदैकताप्रतिभासानुप्रासयोरुद्रेकः कान्तिप्रकर्षोऽवसेयः ॥

न दोषः क्वापि वैषम्येऽप्यर्थालंकारकारणात् ।
पौरस्त्यैरादृतत्वाच्च शब्दाडम्बरतोऽपि वा ॥ १२७ ॥

यथा—

‘चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः ।
स्पर्धते रुद्धमद्धैर्यो वररामा82ननानिलैः ॥ १७० ॥’

अत्र सत्यपि 83वैषम्यदोषे शब्दालंकारगुणादर्थालंकारगुणात्पौरस्त्यैरादृतत्वाच्च गुणत्वम् ॥

न दोष इति । अर्थालंकारकारणादर्थालंकाररूपम् । यत्र हिशब्दस्यार्थोऽन्यथान्यथारूपं भजते तत्रावश्यं तदनुयायिना पदसंदर्भेण भिन्नरूपेण भाव्यम् । एवमपि छायावैरूप्यं वैरस्यमेवावहतीत्याशङ्क्य ‘शब्दाडम्बर’ इत्युक्तम् । आडम्बर

  1. ‘लासकाः’ क
  2. ‘मुखा’ क
  3. ‘शब्दवैषम्यदोषे’ ग