यथा—
अत्रासमस्तत्वेऽपि 87प्रौढबन्धत्वाद्गुणत्वम् ॥
ओज इति । दीप्तरसानुप्रविष्टार्थप्रतिपादकसंदर्भौचित्येन समासभूयस्त्वमोजः । अस्य विपर्ययो दीप्तेरप्रत्यूहादेव समाधीयते । तदिदमुक्तम्—‘दीप्तार्थं बध्यते यत्र तद्दीप्तं चेन्न दुष्यति’ इति । सुगममुदाहरणम् । व्यूढःप्रौढः ॥
यथा—
88अत्रासमस्तरीत्यनिर्वाहादनिर्व्यूढत्वेऽपि रसान्तरपरिग्रहेण रीत्यन्तरपरिग्रहाद्गुणत्वम् ॥
समस्तमिति । उपक्रान्तरीतेरनिर्वाहे 89मधुररसपर्यन्ता प्रतीतिः स्खलतीति दूषणताबीजमुक्तम् । तथाभूतरसानुगुणव्यभिचार्यनुप्रवेशव्यञ्जनौचित्यादुपक्रमनिर्वाहः सर्वस्वायमानो गुणतामासादयति । तथा हि—प्रसीदेत्यादौ प्रणयकेलिकुपितकामिनीप्रसादनायां शृङ्गारविरोधिसमासव्यतिकरेण रीतेरप्यपक्रमे रोषलक्षणभावानुभावभूः90 स्तनकम्पवर्णनायां समासोऽनुप्रविष्ट इति व्यक्तः पूर्वरीतेरनिर्वाहः । रसान्तरं प्रकृतविजातीयरससंबद्धो व्यभिचारी भावः ॥