130
संशयायैव संदिग्धं यदि जातु प्रयुज्यते ।
स्यादलंकार एवासौ न दोषस्तत्र तद्यथा ॥ १३९ ॥
‘कुत्तो लम्भइ पन्थिअ सत्थरअं एत्थ गामणिघरम्मि ।
उण्णअपओहरे पेक्खिऊण जइ वससि ता वससु ॥ १८१ ॥’
[कुतो लभ्यते पथिक स्रस्तरकमत्र ग्रामणीगृहे ।
उन्नतपयोधरान्प्रेक्ष्य यदि वससि तदा वस ॥]

अत्र केनापि पथिकयूना प्रावृडारम्भे ग्रामणीवधूः पीनोन्नतस्तनी सत्थरअमिति स्रस्तरकव्याजेन शस्तरतं याचिता । तं प्रत्याचक्षाणेव यथोक्तं ब्रूते—‘कुतोऽत्र ग्रामणीगृहे स्रस्तरकः, कुतो वा शस्तं रतम् । उन्नतौ पयोधरौ मम हृदये नभसि वा पयोधरान्दृष्ट्वा यदि वससि तदा वस’ इति तदेतस्य गोपनाय 99व्द्यर्थैरेव पदैः प्रयुक्तमिति संदिग्धस्याप्यस्य गुणत्वम् ॥

संशयायैवेति । मिश्रो विरुद्धार्थवाक्यं संशयापादनेन दुष्यतीत्युक्तम् । यदा तु संदेह एव तात्पर्यमवधार्यते तदा स एव रञ्जकतयालंकारतामारोहतीति 100कत्थनं गुणीभाव इति, तदिदंभुक्तम्—स्यादलंकार एवेति । कुतो लभ्यते पथिक स्रस्तरः शस्तरतं चात्र ग्रामणीगृहे । ग्रामणीर्ग्रामप्रधानम् । उन्नतपयोधरान्मेधान् पयोधरौ स्तनौ वा दृष्ट्वा यदि वससि तद्वस । अत्र प्रष्टुः संदेहजनकत्वेन निभृतानुरागप्रकाशनं पथिकविषये प्रतीयते ॥ द्व्यर्थैरिति । तदुक्तम्—‘व्द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु’ इति ॥

वाक्ये प्रबन्धे चार्थानां पौर्वापर्यविपर्ययः ।
दोषः सोपक्रमो नाम चित्रहेतौ च दुष्यति ॥ १४० ॥

यथा—

‘पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ १८२ ॥’
  1. ‘नानार्थैरेव’ ग
  2. ‘कथं न’ स्यात्