134

अप्रस्तुतेति । अप्राधान्य इत्युपलक्षणं बाध्यत्वेऽपीति च बोद्धव्यम् रसवस्तुनोः परस्परविरोधिरसव्यञ्जकयोः । यद्वा मिथोविरोधिरसरूपयोरेव वस्तुनः । तदाह—‘बाध्यानामङ्गभावं वा प्राप्तानामवि102मुक्तता’ इति ॥

हीनं यत्रोपमानं स्यादुपमेयं गुणाधिकम् ।
हीनोपमं तदस्याहुः कवयः क्वाप्यदुष्टताम् ॥ १४७ ॥

यथा—

‘ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥ १९० ॥’

अत्रोपमानस्य हीनतायामपि रागातिशयहेतुत्वाद्गुणत्वम् ॥

हीनमिति । जातिप्रमाणाभ्यामपकृष्टं हीनं चन्द्रापेक्षया कामिनीकपोलस्यापकर्षे आत्मनस्तुल्यतामुद्दीपनस्य प्रतिपाद्यमानः प्रकृतशृङ्गारप्रकर्षमर्पयिष्यतीति गुणत्वम् । एवमधिकोपमेऽपि ॥

यत्रोपमानमुत्कृष्टमुपमेयं निकृष्यते ।
ज्ञेयं तदधिकौपम्यमस्यापि क्वाप्यदोषता ॥ १४८ ॥

यथा—

‘कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् ।
राजन्ननुकरोषि त्वं सौभाग्येनापि मन्मथम् ॥ १९१ ॥’

अस्याधिकौपम्येऽपि राज्ञो लोकपालांशत्वेन शिष्टैरादृतत्वाद्गुणत्वम् ॥'

उपमानस्य103 वैषम्याद्भवेदसदृशोपमम् ।
तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु ॥ १४९ ॥

यथा—

‘प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ १९२ ॥’
  1. ‘मुक्तिवत्सला’ इति पाठः
  2. ‘नेन’ इति सटीकपुस्तकपाठः