136 इव भासते, तथापि विशेषतोऽलंकाराध्यवसायेऽपि सामान्येन वक्रता प्रकाशत एव । नहि लौकिकशास्त्रीयवचनार्थवैपरीत्यमिह प्रतीयते । तदिदमुक्तमर्थौर्जित्यादिति ॥
अस्ति हि वयं याचामह इत्युक्ते याच्ञा च भिक्षाकरानालक्षिता(?)इत्युक्तौ नायकप्रकर्षाभिव्यञ्जको विशेष इत्याह—
यथा—
अत्राश्लीलार्थेऽपि कविभिरविगीतत्वाद्गुणत्वम् ॥
असभ्यार्थमिति । क्वचित्प्राथमिक एव पदार्थसंसर्गोऽश्लीलः । क्वचित्तु न तस्मिंस्तथाभूतेऽपि संसर्गान्तरमिति यदश्लीलमर्थान्तरवाचि वेत्युक्तम् । कविभिरविगीतत्वादिति । अविपरीताद्विपरीतं रतमुत्कृष्यत इति शास्त्रकारैराम्नानात्तस्य शृङ्गारोद्दीपनतया कविभिरादृतत्वादित्यर्थः ॥
- ‘लोऽप्येष’ इति सटीकपुस्तकपाठः↩