तत्र देशविरुद्धस्य गुणीभावो यथा—
अत्र देशविरुद्धत्वेऽपि तस्य राज्ञः प्रभावेणेति कारणोपन्यासाद्गुणत्वम् ॥
देशोऽद्रीति । आदिपदेन द्वीपादिपरिग्रहः । कामार्थसंश्रयाः, अर्थसंश्रयाः प्रवृत्तयोऽवस्थाविशेषाः । हेतुविद्या आन्वीक्षिकी । अयथारूढं अप्रसिद्धम् ॥
कालविरुद्धस्य यथा—
अत्र कालविरुद्धत्वेऽपि राज्ञां विनाशपिशुन इत्यनिष्टसूचकोत्पात रूपत्वाद्गुणत्वम् ॥
कालविरुद्धस्येति । उपघात उत्पातः ॥
लोकविरुद्धस्य यथा—
अत्र लोकविरुद्धत्वेऽपि कामिभिस्तथा संवेद्यमानत्वाद्गुणत्वम् ॥
युक्तिविरुद्धस्य यथा—
अत्र युक्तिविरुद्धत्वेऽपि छेकोत्त्क्या संभाव्यमानोपमया तथाप्रतीतेर्गुणत्वम् ।