018
द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे ।
भग्नच्छन्दोयती च द्वे अशरीरमरीतिमत् ॥ १९ ॥
वाक्यस्यैते महादोषाः षोडशैव प्रकीर्तिताः ।

शब्दहीनमिति । उक्तेनैव प्रयोजनेनासमासद्वन्द्वगर्भबहुव्रीहिसमासौ । एवं गुणादिविभागवाक्येष्वपि प्रयोजनमवसेयम् । भिन्नलिङ्गवचने इत्यादौ तु द्वन्द्वलक्षणस्य समासस्य पूर्ववर्तिनां भिन्नादिपदानां प्रत्येकमन्वयः । यमनं यतिरिति भग्नच्छन्दो भग्नयतिरिति केचित् । तथा च व्यतिकीर्णोऽर्थः स्यात् । अरीतिमदिति । रीतिरस्यास्तीति नित्ययोगे मतुप् । नित्ययोगप्रतिपादनं हि दूषकताबीजोद्धाटनायोपपद्यते । अत एव बहुव्रीहौ लाघवं तत्र नादरः ॥

अथैषां लक्ष्म संक्षेपात्सनिदर्शनमुच्यते ॥ २० ॥

असाधुवदसाधुमत्त्वस्य प्राथम्याल्लक्षणमाह—

उच्यते शब्दहीनं तद्वाक्यं यदपशब्दवत् ।

यथा—

‘नीरन्ध्रं गमितवति क्षयं पृषत्कै- र्भूतानामधिपतिना शिलाविताने ।
गाण्डीवी कनकशिलानिभं भुजाभ्या- माजघ्ने विषमविलोचनस्य वक्षः ॥ २५ ॥’

अत्र गमितवतीति क्तवतोः कर्मणि, आजघ्न इति आत्मनेपदस्याखाङ्गकर्मणि प्रयोगादपशब्दौ । तौ च शिलावितानत्र्यक्षवक्षःसंबन्धाद्वाक्यदोषौ जायमानौ असाधुनाम्नः पददोषाद्भिद्येते ॥

उच्यत इति । अपशब्दत्वं पद एव नियतं वाक्ये संस्कारप्रसक्तेरभावादपशब्दत्वं न वाक्यदूषणम् । तथा हि—‘कर्तरि कृत्’ इति नियमात्कर्मणि क्तवतुरसाधुः । ‘अकर्मकाच्च’ इत्यनुवृत्तौ ‘आङो यमहनः’ इत्यात्मनेपदमकर्मक एव प्राप्तं 'स्वाङ्गकर्मकाच्च’ इति वाक्यैकवाक्यतापर्यालोचनयास्वाङ्गकर्मण्यसाधुः कथं वाक्यदूषणता । नहि वाक्यान्तः पातितामात्रेण सा युज्यतेऽतिप्रसङ्गादित्याशङ्क्योक्तम् । तौ