019 चेति । नहि यथा बाधृधातुः परस्मैपदान्त इत्येवासाधुत्वम्, तथात्र पदान्तरसंनिधानापेक्षत्वेऽध्यवसीयते । भूतानामधिपतिना शिलावितान इति यावन्नानुसंधीयते तावद्गमितवतीति किं कर्तरि कर्मणि वेति संदेहानिवृत्तेः । तथा गाण्डीवी विषमविलोचनस्य वक्ष इत्येतावत्प्रतीत्य कथमाजघ्न इत्यस्वाङ्गकर्मणि आत्मनेपदमध्यवसानयोग्यम् । इयमेव हि वाक्यदोषता यदनेकपदनिरूप्यता नाम वाधतीत्यत्रापि किं बाधशब्दात् क्विबन्तात्तिप्, उत बाधृधातुरिति संदेह इति कुदेश्यम् । स्कन्धादिपदसंनिधानेऽपि तस्यानिवृत्तेः । ‘तेन त्वामनुनाथते कुचयुगम्—‘ इत्यादिकमत्रत्यमुदाहरणं प्रमादात् काव्यप्रकाशकृता पददोषेषु लिखितम् । यथा च । ‘उदपूतितः को न हीयते’ इति रुद्रटेन । तत्र हि ‘अपादाने चाहीयरुहोः’ इति तसिप्रत्ययनिषेधः । स च पदान्तरसंनिधानेनैवेति स्वयमालोचनीयम् । शिलावितानत्र्यक्षवक्ष इत्युपलक्षणम् । अधिपतिगाण्डीविशब्दावपि बोद्धव्याविति ॥

क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र तत्क्रमः ॥ २१ ॥

यथा—

‘तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।
कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ॥ २६ ॥’

अत्र मातङ्गमथ तुरङ्गमिति वक्तव्ये तुरङ्गमथ मातङ्गमित्यर्थः । कान्तिप्रतापौ चोक्त्वा सूर्याचन्द्रमसोः समाविति शाब्दः क्रमभ्रंशो लक्ष्यते ॥

क्रमभ्रष्टमिति । अर्थादागतः क्रम आर्थः । शब्दादागतः शाब्द । अर्थकमभ्रंशः कथं शब्ददूषणमत आह—इति वक्तव्य इति । मातङ्गो दीयतामथ तद्दानसामर्थ्यं नास्ति तदा तुरङ्ग इति वक्तव्ये रचनावैपरीत्यमात्रमत्रापराध्यति । नार्थ इति युक्ता शब्ददोषता ॥

विसंहितो विरूपो वा यस्य संधिर्विसंधि तत् ।

यथा—

‘मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।
मञ्जर्युद्गमगर्भासौ तर्वाल्युर्वी विधूयते ॥ २७ ॥’