020

अत्र मेघानिलेन अमुना एतस्मिन्नसंहितया विवक्षामीत्यभिसंधानं विसंगिः । मञ्जर्युद्गमगर्भासौ इत्यादौ तु विरूपसंधानं विसंधिः ॥

विसंहित इति । विशब्दो विगमं वैपरीत्यं च द्योतयति । तेनार्थद्वयं संपद्यते । ‘परः संनिकर्षः संहिता' । तया तत्कार्यं लक्ष्यते । संधानं संधिः । अर्धमात्राकालव्यवधानं । तथा च—संहिताकार्यशून्यं संधानं यत्रेत्यर्थः । ‘संहितैकपदे नित्या’ इति समयादन्यत्र विकल्पः । ततो नासंधावन्तर्भावः । वैरूप्यं द्विविधम् । दुर्वचकत्वम्, अश्लीलत्वं च । तत्राद्यमुपलक्षणतयोदाहृतम् । द्वितीयं यथा—‘उड्डीय गगने दूरं चलन् डामरचेष्टितः । अयमुत्पतते पत्री ततोऽत्रैव रुचिं कुरु ॥’ ननु यदि संधिकार्य वैकल्पिकं कथमत्र दोष इत्यत आह—न संहितामिति । यदि संहिताप्रतिषेधः स्यात्तदा सकृद्विसंधिकरणेन तथावैरूप्यं भवतीति कवेरपराधो न संभाव्यते, यदि तु प्रतिषेधो नास्ति असकृद्वोपादानं तदा व्यक्तवैरूप्यप्रतिभासात्कथं न दोष इत्यर्थः । न विवक्षामित्युपलक्षणम् । विवक्षायामप्यसकृत्प्रयोगो विरस एव । यथा—‘तत उदित उदारहावहारी’ इति । विशेषं वैशेषिके वक्ष्यामः ॥

पदं पदार्थश्चाभिन्नौ यत्र तत्पुनरुक्तिमत् ॥ २२ ॥

यथा—

‘उत्कानुन्मनयन्त्येते गम्भीराः स्तनयित्नवः ।
अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ २८ ॥

अत्र उत्कानुन्मनयन्तीत्यर्थपुनरुक्तम् । गम्भीराः स्तनयित्नव इति शब्दपुनरुक्तम् ॥

पदं पदार्थश्चाभिन्नाविति । पदमभिन्नमभिन्नतात्पर्याभिधेयमिति विशेषः । तेन तात्पर्यभेदे लाटानुप्रासोऽभिधेयमेदे यमकं च न दोषः । पदार्थोऽभिन्नपर्यायशब्दोपात्त इति शेषः । तेन पूर्वस्माद्विशेषः । स्वाभिधेयतात्पर्यकपदावृत्तिः पर्यायोपादानं च द्वयमपि शब्दपुनरुक्तमिष्यते । तथा च पारमर्षं सूत्रम्—‘शब्दयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्’ इति । युक्तं चैतत् । एकस्याभिधेयस्य द्विरभिधानं दोषः । तच्चाभिधानं तेनैव पदेन पर्यायेण वा संभवतीति शब्दमादायैव तस्य व्यवस्था पुनरुक्तिरत्रैव पदे भवति, तत्कोऽत्र मत्वर्थ इत्यत उक्तम्—यत्र तदिति । यत्र समुदायेऽवयवः पुनरुक्तरूपः स मतुबर्थः । अत एव नानापदनिरूपणीयतया