021 वाक्यदूषणमिति स्फुटोऽर्थः । विकल्पितं चेदं लक्षणमेकस्यैव दूषणधुरारोहणक्षमत्वात् । संक्षेपार्थं त्वेकमुदाहरणम् । अर्थमादायैव पुनरभिधानं पुनरुक्तमिति विभावयितुं लक्षणक्रमवैपरीत्येन प्रथममर्थपुनरुक्तमुदाहृतमित्याशयवान् । व्याख्यानेऽपि तमेव क्रममाद्रियमाण आह—अत्रोत्कानिति । उत्क उन्मनाः । उन्मनयन्तीति उन्मनसं कुर्वन्तीति णिचि इष्ठवद्भावे टिलोपे च रूपम् । अम्भोधरा इति विशेष्यपदम् । शेषाणि विशेषणानि—गम्भीरा मांसलाः, स्तनयित्नवः शब्दायमानाः, तडित्वन्तः प्रकृष्टतडिद्युक्ताः ॥

व्याकीर्णं तन्मिथो यस्मिन्विभक्तीनामसंगतिः ।

यथा—

‘दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके ।
मुखं वल्गुरवं कुर्वंस्तुण्डेनाङ्गानि घट्टयन् ॥ २९ ॥’

अत्र कर्कशकण्टके दण्डेऽङ्गानि घट्टयन् हंसः पद्मिन्या मुखं चुम्बतीति वक्तव्ये यथानिर्दिष्टरूपे विघट्टितविभक्तिकयुक्तित्वाव्द्याकीर्णम् ॥

व्याकीर्णं तदिति । पदानामक्लेशेऽप्यर्थप्रतीतिहेतुभूताकाङ्क्षावद्विभक्तिव्यवधानादनाकाङ्क्षितविभक्तिसंनिधानाच्च नाहत्यपदानि विशिष्टार्थज्ञानजननसमर्थानि भवन्ति । विलक्षणलक्षणक्लेशपदानि भ्रमकराणीति वदतामाराध्यानामयमेवाभिप्रायो वोद्धव्यः । विभक्तिव्यवधानमात्रकृतस्तु क्लेशः प्रायेण पदैकवाक्यतायामुत्पद्यते । दण्ड इति । आधारविभक्तिराधेयविभक्तिमपेक्षते, न तु चुम्बतीति क्रियाविभक्तिम् । सापि कारकविभक्तिमाकाङ्क्षति । पद्मिन्या इति संवन्धविभक्तिकमेव तत्र बोद्धव्यम् । क्लेशेन योऽत्रावगम्यते तमभिमतमर्थमावेदयति—अत्र कर्कशेति । अत एव नापार्थकत्वेन संकरः समुदायार्थस्य प्रतीयमानत्वात् । अस्ति कश्चिदुच्चारणयोर्विशेषो येन वाक्यार्थप्रतीतिः क्कचिदाहत्य भवति । क्कचित्तु नेति स एव विशेषः । संनिधानं व्यवधानमिति व्याख्यायते । कार्यदर्शनादर्शनाभ्यां चोन्नीयत इत्याशयवानाह—1येथोक्तरूपेणेति(?) ॥

वाक्यान्तरपदैर्मिश्रं संकीर्णमिति तद्विदुः ॥ २३ ॥
  1. अयं प्रतीको मूले तु नोपलभ्यते, तेन कदाचिदयं प्रतीकपाठः प्रक्षिप्तो भवेत्