025

अत्रापगेव त्वमविगाह्योऽसीति लिङ्गभेदः । नारीणामुत्तितीर्षत इति लिङ्गभेदो वचनभेदश्च । तदिदं द्वयोरेकमेवोदाहरणम् ॥

यत्रोपमेति । उपमाग्रहणमुपलक्षणमित्यग्रे वक्ष्यामः । उपमा उपमितिः सादृश्यभिन्नोपमानवाचिन उपमेयवाचिनश्च लिङ्गं स्त्रीपुंनपुंसकं यस्य सा तथोक्ता । एवं भिन्नवचनोपममित्यत्रापि व्याख्येयम् ॥ अविगाह्योऽसीति । अविगाह्यतामात्रमत्र सादृश्यं विवक्षितमेतदुपयुक्तमेव विशेषणमुपमानोपमेययोरुपादानयोग्यमित्यकस्मादेव विकृतवचनभेदनिबन्धनः प्रयोजनमाकाङ्क्षति । तथा तदनुसंधानप्रवणस्य प्रकृतप्रतीतिराच्छाद्यत इति दूषणसिद्धिः । एतेन दूषणता व्याख्याता । विभागवाक्ये सहितावस्थयोरुद्देशादिह च मिलितयोरुदाहरणात्तथाभावो दोषत्वमिति भ्रान्तिं निरस्यति—तदिदमिति । एकमुदाहरणं नत्वेकः संमित्र उपाधिः प्रत्येकमेव त्वस्ति समर्थत्वादित्यर्थः । एतदेवानुसंधाय विभागवाक्ये द्वे पदम् ॥

तत्किमुदाहरणस्य संकीर्णत्वमेव नेत्याह—

अथ भिन्नलिङ्गस्यैव यथा—

‘वापीव विमलं व्योम हंसीव धवलः शशी ।
शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥ ३४ ॥’

भिन्नवचनस्यैव यथा—

‘सरांसीवामलं व्योम काशा इव सितः शशी ।
शशीव धवला हंसी हंसीव धवला दिशः ॥ ३५ ॥’

अथ भिन्नलिङ्गस्यैवेति । द्वयमपि निगदव्याख्यातम् ॥

जातिप्रमाणधर्मतो न्यूनता उपमानस्य न्यूनोपमत्वम् । तत्र जातिप्रमाणन्यूनतार्थदोषः । धर्मन्यूनता तु धर्माभिधायकपदन्यूनतालक्षणाशब्ददोष एव । एतेनाधिकत्वं व्याख्यातमित्याशयवानाह—

न्यूनोपममिह न्यूनमुपमानविशेषणैः ।

यथा—

‘संहअचक्कवाअजुआ विअसिअकमला मुणालसंच्छण्णा ।
वावी वहु व्व रोअणविलित्तथणआ सुहावेइ ॥ ३६ ॥’