026
[संहतचक्रवाकयुगा विकसितकमला मृणालसंच्छन्ना ।
वापी वधूरिव रोचनाविलिप्तस्तनी सुखयति ॥]

अत्र नेत्रबाहूपमापदानां वधूविशेषणत्वेनानुक्तत्वादिदं न्यूनोपमम् ॥

न्यूनोपममिहेति । इहशब्दो येषु मध्येषूपमानस्य स्तोकविशेषणतयोपमेयन्यूनेत्युक्तं तथाधिकोपममिति वक्ष्यति—संहतेत्यादि । अत्र चक्रवाकयुगोपमानमपदमेव परमुपात्तम । रोचनाविलिप्तस्तनीत्यनेन कमलस्योपमानं नेत्रपदं मृणालस्योपमानं बाहुपदं च नोपात्तं तदपि च सविशेषणमुपादेयं भवति । येन विकासादिसमभिव्याहारसामञ्जस्यमपि स्यादिति । पदानामिति बहुवचनाभिप्रायः । अत एव धर्माणामेकनिर्देशेऽन्यसंवित्साहचर्यादिति नावतरति व्यभिचारात् । किमर्थं तस्योपमानमनुसंधेयमित्यपि न वाच्यम् । मात्रापि नानर्थिका कविनोपादेयेति साहित्यविदाम्नायव्यवस्थितावुपमेयविशेषणस्योपमानविशेषणतया प्रयोजनचिन्तायां पूर्ववदेव प्रतीतिप्रत्यूहस्य सुलभत्वादनुक्तत्वादितिशब्दप्रधानकतामाचष्टे । एवमुत्तरत्र ॥

अधिकं यत्पुनस्तैः स्यात्तमाहुरधिकोपमम् ॥ २६ ॥

यथा—

‘अहिणवमणहरविरइअवलअविहूसा विहाइ णववहुआ ।
कुन्दलएव्व समुप्फुल्लगुच्छपरिणित्तभमरगणा ॥ ३७ ॥’
[अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूः ।
कुन्दलतेव समुत्फुल्लगुच्छपरिणीयमानभ्रमरगणा ॥]

इदं भ्रमरगणस्योपमानविशेषणस्याधिक्यादधिकोपमानम् ॥

अधिकमिति । यद्यप्येकस्य विशेषणाधिक्ये विशेषणन्यूनत्वे वान्यविशेषणस्य न्यूनाधिकभावो नियतस्तथाप्युपमानगतमेव द्वयं निरूप्यते । तत्र हि दृष्टमुपमेये प्रतिबिम्बकल्पमुपस्थाप्यते तेनान्तो नोपमेये तयोर्निरूपणमिति ॥

भग्नच्छन्द इति प्राहुर्यच्छन्दोभङ्गवद्वचः ।

यथा—

‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ ३८ ॥’