006
पद श्रुतेरसुखदं कष्टमित्यभिशब्दितम् ।

यथा—

‘वर्वर्ष्टि जलदो यत्र यत्र दुर्घर्ष्टि चातकः ।
पोफुल्लूति नीपः कालोऽयं चर्कर्ति हृदयं मम ॥ ३ ॥’

अत्र वर्वर्ष्ट्यादीनि क्रियापदानि श्रुत्यसुखदानि श्रूयन्ते ॥

पदमित्यादि । दुर्वचकवर्णारब्धपदं कष्टोच्चारणीयतया कष्टमुच्यते । श्रुतेरसुखदमिति दूषकताबीजोद्धाटनम् । कदर्थिता हि तेन श्रुतिशक्तिर्न तद्वाक्यप्रतीकपरामर्शक्षमेति । काव्यप्रकाशकृता पदैकदेशः कष्ट उक्तः, यथा—‘तद्गच्छ सिध्द्यै’, 'अपेक्षते प्रत्ययमङ्गलब्ध्यै’ इत्यत्र ‘ध्यै’ ‘ध्यै’ इति, तत्राह—पदमिति । न हि समस्तवस्तुकटुत्व एव पदं कष्टत्वमासादयति । कार्तार्थ्यमित्यादौ तदुदाहृते तदभावात् । एकदेशकष्टतया पदकष्टत्वमिति चात्रापि न दण्डवारितमिति भावः । वर्वर्ष्टि पुनः पुनर्वर्षति । वृषेर्यङ्लुगन्तस्य रूपम् । दर्धर्ष्टि पुनः पुनर्धृष्टो भवति । ‘मिधृषा प्रागल्भ्ये’ इत्यस्य तत्रैव रूपम् । ‘दर्द्रष्टि’ इति पाठे दृशेर्यड्लुक्यमागमे च रूपम् । पुनः पश्यति । नीपः कदम्बः । पोफुल्लूति । ‘फुल्ल विकसने’ इत्यस्य तत्रैव रूपम् । एवंभूतो वर्षासमयो मम विदूरकान्तस्य हृदयं चर्कर्ति पुनः पुनरतिशयेन वा छिगत्ति । ‘कृती छेदने’ इत्यस्य रूपम् । भूयसां कष्टपदानां समभिब्याहाराद्वाक्यदोष इति भ्रान्तिः स्यात्तत्राह—क्रियापदानीति । कथमेवं विभागोऽवसीयत इत्यत आह—श्रूयन्त इति । श्रोत्रप्रत्यक्षेणैव पदमात्रगामितया कष्टत्वमनुभूयते इत्यर्थः ॥

पादपूरणमात्रार्थमनर्थकमुदाहृतम् ॥ ८ ॥

यथा—

‘बिभर्ति यश्च देहार्धे प्रियामिन्दुं हि मूर्धनि ।
स वै देवः खलु त्वां तु पुनातु मदनान्तकः ॥ ४ ॥’

अत्र ‘च’ ‘हि’ ‘वै’ ‘खलु’ ‘तु’ इत्येतानि पदानि पादानेव पूरयन्ति ॥

पादपूरणेति । द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययमनर्थकमभिमतम्, अत एव प्राच्यैश्चादिपदमव्ययमिति प्रयोगबीजकथनार्थं नहि निर्मूलः प्रयोगः संभवति वृत्तिनिर्वहणसमर्थः । प्रायेणाव्ययपदानि क्षिप्त्वा तत्पूरयति । तदुक्तम्—‘कुकवि-