039 वाक्यार्थ उतेयमारद्वृत्तिः समीपदेशवर्तिनी । ‘आराद्दूरसमीपयोः’ । तथा चेदृशं कुलाङ्गनानुचितं चारित्रखण्डनं द्रष्टुं न क्षमा न सहिष्णुरतोमानयनचापलं काषींरिति । नानार्थपदप्रक्षेपात्साधकबाधकप्रमाणाभावाच्च संदिह्यत इत्याह—अत्रारात्प्रमृतिशब्दानामिति । न च मिथो विरोधिनोरेकत्र विवक्षा संभवति । न चास्ति प्रकरणादिकमेकनियामकं । न च मातुः प्रकोपशङ्कया प्रियविलोकनरसोत्काया मनोरथभङ्गो न भवतीत्यर्थः ॥

वाक्यं यत्तु क्रमभ्रष्टं तदपक्रममुच्यते ॥ ४८ ॥

यथा—

‘काराविऊण खउरं गामउलो मज्जिओ अ जिमिओ अ ।
णक्खत्तत्तिहिवारे जोइसिअं पुच्छिउं चलिओ ॥ ५५ ॥’
[कारयित्वा क्षौरं ग्रामप्रधानो मज्जितश्च भुक्तवांश्च ।
नक्षत्रतिथिवाराञ्ज्यौतिषिकं प्रष्टुं चलितः ॥]

अत्र क्षुरकर्मणोऽनन्तरं नक्षत्रादिप्रश्नादिदमपक्रमम् ॥

वाक्यं यत्त्विति । कारयित्वा क्षौरं गामउलो ग्रामप्रधानपुरुष इति देशीयाः । ग्रामेऽपि वा यः कुटोऽव्युत्पन्नः । मज्जिओ अ सुस्नातश्च जिमिओ अ भुक्तवांश्च ततो नक्षत्रं तिथिवारौ च ज्यौतिषिकं प्रष्टुं चलितः । तिथिवारज्ञानान्तरं क्षुरकर्म, ततः स्नानभोजने, इति लौकिकः क्रमस्तस्य विपर्यासो व्यक्त एव श्रुतिवचनात् । क्रियमाणेऽपि रचनावैपरीत्येन क्रमभ्रंशः समाधीयत इति नासौ शब्ददोषः । अत्र पूर्वार्धोपात्तानां क्रमो न विपर्यस्तः किंतु क्षौरोत्तरार्धोक्तयोरित्याह—अत्र क्षुरकर्मण इति ॥

जात्याद्युक्तावनिर्व्यूढं खिन्नमाहुर्महाधियः ।

यथा—

‘वेवाहिऊण वहुआ सासुरअं दोलिआइ णिज्जन्ती ।
रोअइ दिअरो तं संठवेइ पास्सेण वच्चन्तो ॥ ५६ ॥’
[विवाह वधूः श्वाशुरकं दोलिकया नीयमाना ।
रोदिति देवरस्तां संस्थापयति पार्श्वेन व्रजन् ॥]

अत्र प्रक्रान्तस्य नवपरिणयवतीस्वरूपभणनस्यानिर्व्यूढत्वात्खिन्नत्वम् ॥