040

जात्यादीति । वाक्यार्थो द्विविधः—स्वतःसंभवी, कविप्रौढोक्तिनिर्मितश्च । तत्रासति विशेषहेतौ यज्जातीयमर्थ बुध्द्या व्यवस्थाप्य वचनोपक्रमस्तज्जातीयस्यैव समस्तवाक्यनिर्वाहो युक्तो न त्वन्तरेण परित्यागेन भेदः । उपक्रान्तमिर्वाहाशक्तो लोके खिन्न इत्युच्यते । तदिदमुक्तम्—जात्यादीति । आदिपदेन स्वतः संभविविशेषाणामुपमादीनां कविप्रौढिनिर्मीतानां च रूपकादीनां परिग्रहः । विवाह्य नववधूः सासुरअं श्वशुरगृहं दोलिकया नीयमाना रोदितीति स्वतःसंभवी । नवपरिणीतास्वभावलक्षणार्थस्तावदुपक्रान्तस्तथा सति यो जन्माभ्यस्तपितृगृहवियोगवेदनादूनमानसाया अत्यन्तापरिशीलितेन देवरेण संस्थापनप्रकारः स न जातौ निविशते । परिशीलितभर्तृकुलाया कुलायां वा । तस्यौचित्यात्तस्या एव हि किंचन वक्तव्यं भवतीत्याह—अत्र प्रक्रान्तस्येति ॥

यत्सर्वलोकातीतार्थमतिमात्रं तदुच्यते ॥ ४९ ॥

यथा—

‘भृङ्गेण कलिकाकोषस्तथा भृशमपीड्यत ।
ववर्ष विपिनोत्सङ्गे गोष्पदप्रं यथा मधु ॥ ५७ ॥’

अत्र कलिकाकोषे गोष्पदप्रमधुवर्षस्यासंभवादतिमात्रत्वम् ॥

यत्सर्वलोकेति । गोष्पदप्रमिति पूरेर्णिजन्ताद् ‘वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्’ इति णमुल्, ऊलोपश्च । कलिकामकरन्दपरिणामस्यैतावतो लोके न प्रसिद्धिः । न चैतत्खिन्नमेव । कलिकाकुसुमस्यानुपक्रमात्, किं तु स्वरूपभ्रमाल्लोकमर्यादातिरिक्तवृत्तमुपात्तमिति पृथगेव दोषः ॥

यत्तु क्रूरार्थमत्यर्थं परुषं तु तदुच्यते ।

यथा—

‘खाहि विसं, पिअ मुत्तं, निज्जसु मारीअ, पडउ दे वज्जम् ।
दन्तक्खण्डिअथणआ खिविऊण सुअं सवइ माआ ॥ ५८ ॥’
[खाद विषं, पिब मूत्रं, नीयस्व मार्या, पततु ते वज्रम् ।
दन्तखण्डितस्तनी क्षिप्त्वा सुतं शपति माता ॥]

अत्र खाद विषमित्यादीनां क्रूरार्थानामभिधानात्पारुष्यम् ॥