007 प्रबन्ध इव श्लिष्टपदप्रचारः । प्रकटतुहिनचयो जनाकीर्णश्च’ इति । बिभर्तीति । चः समुच्चयादिषु चतुर्षु प्रसिद्धप्रयोगो न च तेषामन्यतमोऽप्यत्र संभवति । नाप्युच्चावचार्थकः इति भाषणेनार्थान्तरमपि । एवं हिप्रभृतिष्ववसेयम् । एतेनैतदप्यपास्तम् । यदाहुरेके—पदादिविशेषानुपादानात्पदैकदेशोऽप्यनर्थकोऽभिमतः । तथा च—‘आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् । संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥’ इत्यत्र दृशामिति बहुवचनमनर्थंकं कुरङ्गेक्षणाया एकस्या एवोपादानात् । न चात्र व्यापारे दृक्शब्दो वर्तते, अञ्जनपुञ्जलेपादीनामनन्वयापत्तेः । तथा ‘कुरुते’ इत्यात्मनेपदमनर्थकमकर्त्रभिप्रायक्रियाफलादिति । अपि च । बहुत्वकर्त्र भिप्रायफलाभावे कथनं द्वयोरसाधुत्वमिति राजमार्ग एव भ्रमः । नहि स्वरूपत एव किंचिदसाधु साधु वा संभवति ॥

रूढिच्युतं पदं यत्तु तदन्यार्थमिति श्रुतम् ।

यथा—

‘विभजन्ते न ये भूपमालभन्ते न ते श्रियम् ।
आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥ ५ ॥’

अत्र विभजतेर्वण्टने, आलभतेर्मारणे, आवहतेः करणे, प्रस्मरतेर्विस्मरणे रूढिः । न तु विशेषसेवायाम्, अभितो लाभे, समन्ताद्वहने, प्रकृष्टस्मरणे चेति ॥

रूढिच्युतमिति । शक्तिमनपेक्ष्य प्रयुक्तं रूढिच्युतम् । अत एव यदभिसंधाय प्रयुज्यते न कथंचन यस्यासावर्थ इति अन्वर्थमन्यार्थमिति नाम । एतदेव धातुविशेषोऽवान्तरमुपसर्गविशेषयोगतो योगवानित्यादिनान्यैरुक्तम् । विभजन्त इति । भजिः सेवार्थो विरुपसर्गस्तद्गतविशेषद्योतकस्ततश्च यथा विद्योतत इति । अत्र विशिष्टधात्वनुरूपप्रयोगाभिधानं तथात्रापि भविष्यतीति भ्रमो बीजमत्र शब्दशक्तिस्वभावात् । क्वचिदुपसर्गोपसंदानेन धातुरर्थान्तर एव वर्तते । यदाहुः—‘उपसर्गेण धात्वर्थो वलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥’ इति । तदाह—अत्र विभजतेरित्यादि । नन्वर्थापेक्षित्वे पदार्थदूषणमेवंविधमिति वामनः । नैतत् । पदस्यैवान्वयव्यतिरेकवत्त्वात् । नह्यत्रान्वयस्यापराधः कश्चित् । किं तु