एवं त्रिपादयमकप्रपञ्चोऽपि भवतीत्याह—त्रिपादयमकेष्विति । विशदा धवला । विशन्त आमत्ताः सारसा यत्र तस्मिन् । सारसं सरःसंबन्धि । मन्मथोन्माथदायितया कुत्सितं रुतं कुरुतम् । मध्यान्तादीनि त्रिपादयमकानि किमिति नोदाहृतानीत्यत आह—नास्येति ॥
द्विपादयमकेष्वव्यपेतमादियमकं यथा—
उत्कलिका उत्कण्ठा तदुत्तरं तटं कूलम् । मन्मनोऽव्यक्तमधुरः । मन्मनो मदीयं मनः ॥
तदेव मध्ययमकं यथा—
अलिनि यो मलिनिमा कज्जलाभत्वं स माधवयोषितां यादवस्त्रीणां विलोचनतारकास्तुलयति स्मेति संबन्धः ॥
अन्तयमकं यथा—
एवमादिमध्यान्यपि द्रष्टव्यानि । एकपादयमकेष्वव्यपेतमाद्यन्तयोरनुल्लेखीति नोदाह्रियते ॥
खण्डितेति । केतूकृतो ध्वजतां नीतः । उच्चैर्वानरो हनूमान् । नरोऽर्जुनः ॥ आद्यन्तयोरनुल्लेखीति । महाकविप्रयोगेषु विशेषशोभाकरतया प्रसिद्धेरभावोऽनुल्लेखो न त्वसंभव एव । एवं मध्ययमकं त्वित्यादौ बोद्धव्यम् ॥
मध्ययमकं तु चतुर्थपादं एवोल्लिखति । यथा—