145

नात्युत्तमपात्रप्रयोज्या पैशाची शुद्धा यथा—

‘पनमत पनअपकुप्पितगोलीचलनग्गलग्गपडिबिम्बम् ।
दससु नहदप्पनेसु एआदसतनुधलं लुद्दम् ॥ ४ ॥’
[प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् ।
दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥]

नात्युत्तमेति । उत्तमादपकृष्टं मध्यमादुत्कृष्टं नात्युत्तमम् । ‘प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् । दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥’ एवं नाम देवीकोपे भगवतः प्रणयकातरता येन युगपदिव सर्वाभिरपि मूर्तिभिः प्रणमतीति प्रतीयमानोत्प्रेक्षा ॥

नातिमध्यमपात्रप्रयोज्या शौरसेनी शुद्धा यथा—

‘तुं सि मए चूअङ्कुर दिप्णो कामस्स गहिदधणुहस्स ।
जुवइमणमोहणसहो पञ्चब्भहिओ सरो होहि ॥ ५ ॥’
[त्वमसि मया चूताङ्कुर दत्तः कामस्य गृहीतधनुषः ।
युवतिमनोमोहनसहः पञ्चाभ्यधिकः शरो भव ॥]

नतिमध्यमेति । हीनादुत्कृष्टं मध्यमादपकृष्टं नातिमध्यमम् । तुं सीति । कामस्य । कामायेत्यर्थः । चतुर्थ्याः ‘संबन्धसामान्यविवक्षायां षष्ठी’ इति सूत्रात् षष्ठी ॥

नातिहीनपात्रप्रयोज्योऽपभ्रंशः शुद्धो यथा—

‘लइ वप्पुल पिअ दुद्धं कत्तो अम्हाणहुं छासि ।
पुत्तहुमत्थे हत्थो जइ दहि जम्मेवि जअ आसि ॥ ६ ॥’
[गृहाणानुकम्प्य पिब दुग्धं कुतोऽस्माकं तक्रम् ।
पुत्रकमस्तके हस्तो यदि दधि जन्मन्यपि जातमासीत् ॥]

प्रायिकं चैतत् । तेन कवेरभिप्रायशक्त्यादिभ्यः सर्वा अपि सर्वप्रयोज्या भवन्ति । ता इमाः शुद्धाः षडेव ॥

नातिहीनेति । हीनात्किंचिदुत्कृष्टं मध्यभादपकृष्टं नातिहीनम् । लइ वप्पुलेति । लइ गृहाण । वप्पुलेत्यनुकम्पासंबोधने । पिब दुग्धम् । कुतोऽस्माकं छासि-