210

श्लोके स्थूलाव्यपेतं यथा—

‘नगजा न गजा दयिता दयिता विगतं विगतं ललितं ललितम् ।
प्रमदाप्रमदामहता महतामरणं मरणं समयात्समयात् ॥ १२६ ॥’

अत्रावृत्त्यषृकेन श्लोकोऽपि व्याप्त इत्यस्थानयमकमिदं श्लोके स्थूलाव्यपेतमुच्यते ॥

नगजाः पर्वतजाः । दयिता वल्लभाः । एवंविधा अपि गजा हस्तिनो न दयिता न रक्षिताः । वीनां हंसप्रभृतीनां पक्षिणां गतं चङ्क्रमणं विगतमपगतम् । ललितं विलसितम् । ललितं भ्रष्टम् । प्रमदा कान्ता । अप्रमदा हर्षशून्या । आमश्चित्तव्यथारूपो रोगस्तेन हता । महतां प्रकर्षशालिनाम् । अरणं सङ्ग्रामवर्जितम् । मरणं विनाशः । समयाद्दैवात् । समयात्संगतमासीत् ॥

श्लोक एव सूक्ष्माव्यपेतं यथा—

‘विविधधववना नागगर्धर्द्धनानाविविततगगनानानाममज्जज्जनाना ।
रुरुशशललनाना नावबन्धुन्धुनाना मम हि हिततनानानानन स्वस्वनाना ॥ १२७ ॥’

अत्र सूक्ष्मतराभिरष्टाविंशत्यावृत्तिभिः श्लोको व्याप्त इत्यस्थानयमकमिदं श्लोके सूक्ष्माव्यपेतमुच्यते ॥

[130बलभद्रं प्रति कृष्णवाक्यं समुद्रतीरभूवर्णनपरम् । विविधानि धवानां तरुभेदानां वनानि यस्यां सा । नागेषु सर्पेषु गर्धेनाभिलाषेण बुभुक्षया ऋद्धैः सभृद्धैर्नानाविधैर्विभिः पक्षिभिर्विततं व्याप्तं गगनं यस्यां सा । अनामेन अनमनेन मज्जन्तो जना यस्यां सा । बहूदकेत्यर्थः । यद्वा अस्य विष्णोर्नाम निमज्जन्तः । तत्परा इति यावत् । तादृशा जना यस्यां सा । अविद्यमाना नरोऽर्वाचीना मनुष्या यस्यां सा । समासान्तविधेरनित्यत्वात् ‘नद्यृतश्च’ इति न कप् । यद्वा । अविद्यमान ओ विष्णुर्यस्यां सा । यद्वा । अनामनि विष्णुनामनि मज्जभ्द्यस्तत्परेभ्यो जातं नानं यस्यां सा । नं ज्ञानम् । तत्त्वज्ञानमिति यावत् । न नं अनं न अनं नानम् । रुरूणां

  1. एतत्कोष्टकान्तर्गतपाठः काशीमुद्रितपुस्तके प्रकाशकप्रमादान्मूले पतित उपलभ्यते