212 यथैव च वृत्तौचितीवशात्सौभाग्यमुन्मिषति, तेन व्यपेतबाधादव्यपेतपुरस्कारस्तदिदमाह—अत्रेत्यादि । संदंशः संधानम् ॥

अन्यभेदानुच्छेदेन सूक्ष्मं यथा—

‘मतां धुनानारमतामकामतामतापलब्धाग्रिमतानुलोमता ।
मतावयत्युत्तमताविलोमतामताम्यतस्ते समता न वामता ॥ १२९ ॥’

अत्र व्यपेतानुच्छेदेनैव पादसंधिष्वव्यपेतमुत्पद्यते इत्यस्थानयमकमिदं सूक्ष्मावृत्तेः संधिसूक्ष्माव्यपेतमुच्यते ॥

मतां संमतामारमतां योगिनामकामतां वीतरागतां धुनानाधःकुर्वाणा । अतापोऽनायासस्तेन लब्धेऽग्रिमतानुलोमते श्रेष्ठतानुकूल्ये यया सा । अतएवोत्तमताया विलोमतामतिरेकमयती न गच्छन्ती ईदृशी तवाताम्यतः संसारखेदेनाबाध्यमानस्य मतौ समता न तु वामता वैषम्यमिति । अत्र प्रतिपादमादिमध्यान्तेषु व्यपेतयमकमुपलभ्यते । संधिषु च संदंशपाठादस्थानयमकव्यपेतं च । न च पूर्वोपलब्धं बाध्यते । न वा संधौ विरतिरिति प्रसङ्गः संगच्छते । तेन व्यपेतानुच्छेदकमेतदव्यपेतम् । अत्रापि वृत्तौचिती सर्वस्वायते ॥

स्वभेदे पूर्वभेदानुच्छेदेन स्थूलं यथा—

‘सतमाः सतमालो यः पारापारायतः स दावोऽदावः ।
लोकालोकानुकृतिः सह्यः सह्ययमनभ्रकूटैः कूटैः ॥ १३० ॥’

अत्र विषमपादयोः समपादावन्तेऽवतिष्ठमानावादियमकाद्यन्तयमकयोरादिमध्यान्तयमकतामापादयन्तः पारापारेति सह्यः सह्य इत्यावृत्ती स्थूले एवादिमध्ययमकव्यपदेशं च लभेते इत्यस्थानयमकमिदम् । स्वभेदे पूर्वभेदानुच्छेदि स्थूलाव्यपेतमुच्यते ॥

सतमेति । तमोऽत्र गहनता तया सतमाः सान्धकारम् । पारा नाम नदी तस्याः पारे आयतो विस्तीर्णो दावो वनं तद्बहुलत्वाददावो वनवह्निप्रभावरहितो लोकालोकश्चक्रवालाख्यः पर्वतस्तदनुकृतिस्तत्सदृशो यः सोऽयं सह्यनामा गिरिरभ्रकूटशून्यैः कूटैः शृङ्गैर्लक्षितः । हिशब्दो वाक्यालंकारे । अत्र प्रथमतृतीययोरादौ द्वितीयचतुर्थयोराद्यन्तयोर्व्यपेतयमकमेव वर्तते । तदनुच्छेदेनैव संदंश-