218

समं समकालं क्षणेन ततो विस्तीर्णस्तामनुभवैकसाक्षिचिन्तानुवृत्तिलक्षणां निर्वृतिमरसे इति सोपालम्भसंबोधनम् । समन्ततः सर्वतस्तामरसेक्षणे कमलनेत्रे न किमपाकरोतीति पूर्वेण संबन्धः ॥

व्यपेतभेदेषु प्रथमतृतीययोर्यथा—

‘सभा सुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः ।
स भासुराणामबला विभूषिता विहारयन्निर्विश संपदः पुराम् ॥ १४३ ॥’

अबला बलाख्येन दानवेन रहिता विभुना शक्रेणाध्यासिता सुराणां देवानां सभा मृणालनिर्मलैस्तव गुणैरारोहि यतः, अतः स त्वं पुरामबला विभूषिताः स्त्रियोऽलंकृता विहारयन् भासुराणां सतां संपदो निर्विशेत्याशंसा ॥

तत्रैव प्रथमचतुर्थयोर्यथा—

‘कलं कमुक्तं तनुमध्यनामिकास्तनद्वयीं च त्वदृते न हन्त्यतः ।
न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका ॥ १४४ ॥’

कलं मधुराव्यक्तं उक्तं भाषितं तनोर्मध्यस्य भरेण नामिकास्तनद्वयीं च त्वां विहाय कं नायकं हन्ति वशीकरोति । अतो जितेन्द्रियेषु प्रथमगणनीये त्वयि सति कलङ्कमुक्तं निर्दोषं तनुमधि शरीरमधिकृत्य भूतमनामिकाऽनामिकाङ्गुलिः न याति परस्य त्वत्सदृशस्याभावात् । निर्दोषो हि लोके ऊर्ध्वाङ्गुल्या निर्दिश्यते ॥

एवं द्वितीयचतुर्थयोरपि यथा—

‘या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तयास्वानमा नमति कालिमालया ॥ १४५ ॥’

वल्लकीगुणस्वानो वीणाशब्दस्तस्य मानं या बिभर्ति । कालिम्नः श्यामताया आलया कज्जलप्रभृतीनतीत्य वर्णप्रकर्षेण या स्थिता, तया गातुमुपक्रान्तया भ्रमरमालया हेतुभूतया का नामात्र पर्वतं कान्तं न नमति न प्रणमतीति न, न सुखेन आनम्यते इति अस्वानमा या प्रागासीत् साप्युद्दीपनप्रकर्षे निःशेषितमाना नमतीत्यर्थः ॥

अर्धाभ्यासः समुद्गः स्यात्तस्य भेदास्त्रयो मताः ।
व्यपेतश्चाव्यपेतश्च उभयात्मा च सूरिभिः ॥ ६६ ॥