231

वर्णोत्कटो यथा—

‘विमुच्य सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना ।
बवन्ध बालारुणबभ्रुवल्कलं पयोधरोत्सेधविशीर्णसहतिः ॥ १६८ ॥’

अत्र सर्वं पूर्ववत् । किंतु तृतीयपादे बबन्ध बालारुणबभ्रुवल्कलमिति वर्णाधिक्ययोगः । सोऽयं वर्णोत्कटो नाम श्रुत्यनुप्रासः ॥

विमुच्येति । हारोचितसंनिवेशयोरपि स्तनयोरनुचितवल्कलबन्धसंभावने हेतुरहार्यनिश्चयेति । अत एव सा मां कोऽपि वारयेदिति कातरताप्रादुर्भावादितस्ततो विलोलदृष्टिः । अत्र हकारमकारावोष्ठ्यौ, चकारयकारौ तालव्यावित्यादिना क्रमेण मसृणा हकारादीनां रूपसाजात्येऽपि मसृणताप्राधान्याद्वर्णमसृणा चावृत्तिरित्याह—अत्र सर्वमिति । वर्णोत्कटत्वं व्याचष्टे—वर्णाधिक्ययोग इति । उद्भटं हि रूपसाजात्यं वर्णोत्कटत्वम् । तच्च सरूपवर्णावृत्त्याधिक्येनेत्यर्थः ॥

वर्णानुत्कटो यथा—

‘ततः प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥ १६९ ॥’

अत्र दन्त्यवर्णप्रायतयातिमसृणत्वे शिलातलेष्विति दन्त्यवर्णाभ्यामेव वर्णस्तोमो दत्तः ।सोऽयं वर्णानुत्कटो नाम श्रुत्यनुप्रासः । तेऽमी चत्वारोऽप्यतिप्रसिद्धतया ग्राम्या उच्यन्ते ॥

ततः प्रभृतीति । तापोद्रेकाद्दत्तं दत्तमेव चन्दनमाश्यानभावेन रेणुभिरलकच्छटासु विशीर्यत इति द्वितीयकामावेशो ध्वनितः । अत्र तकारनकारौ दकारनकारावित्यादिना क्रमेण श्लोकसमाप्तिं यावद्बहवो दन्त्याः । तेनैकश्रुतिव्याप्तस्य संदर्भस्य मसृणतायामतिशयः । शिलातलेति रूपसाजात्येन लकारावुद्भूतश्रुतिकौ । न चाधिकावृत्तिरत्रास्तीत्यनुत्कटता । न च श्रुतेरुद्भवेऽपि मसृणता न प्रकृष्यत इति वर्णानुत्कटोऽयम् । ग्राम्यत्वं व्याचष्टे—तेऽमी चत्वारोऽपीति । श्रुतिसाजात्यस्य शब्दानुशासनेऽपि प्रसिद्धेरतिप्रसिद्धत्वम् ॥

ग्राम्यवैपरीत्येन नातिप्रसिद्धो नागरः । यथोच्यते—

एकत्वबुद्धिर्भेदेऽपि तत्त्वेऽप्येकत्वनिह्नवः ।
यस्य वर्णस्य तं प्राहुरनुप्रासस्य जीवितम् ॥ ७४ ॥