237

परिस्रुत् मदिरा । पृषत्का बाणाः । पञ्चमः स्वरविशेषस्तद्भूयिष्ठो ध्वनिः पञ्चमध्वनिः ॥

अन्तःस्थानुप्रासवती द्राविडी यथा—

‘प्रियाललवलीतालतमालैलावनावली ।
भाति पत्रलहिन्तालकृतपुण्ड्रा वधूरिव ॥ १८३ ॥’

पत्रलाः सान्द्रपत्राः । सिध्मादेराकृतिगणत्वाल्लच् । पुण्ड्रं तिलकः । अत्र लकारवकारानुप्रासाभ्यां संदर्भनिर्वाहः ॥

ऊष्मानुप्रासवती माथुरी यथा—

‘पुष्णती पुष्पधनुषं मुष्णती प्लोषविप्रुषः ।
मिषन्ती निर्निमेषेण चक्षुषा मानुषी न सा ॥ १८४ ॥’

प्लोषो विरहदाहस्तस्य विप्रुषस्तीक्ष्णा भागाः । तेऽमी सप्त शुद्धा एव वृत्त्यनुप्रासाः ॥

द्वित्रिवर्गानुप्रासवती मात्सी यथा—

‘कोकिलालापवाचालो मामेति मलयानिलः ।
उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः ॥ १८५ ॥’

संकीर्णाः पुनरन्ये पञ्च भवन्ति । तत्र संकरो द्विधा—विजातीयसंवलनम्, मिथः संभेदेन संयोगरूपता च । कोकिलालापेत्यादौ कवर्गान्तःस्थचवर्गानुप्रासाः स्फुटा एव । संयोगस्तु विद्यमानोऽपि न विवक्षितः ॥

द्वाभ्यां विदर्भितैकवर्ग्या मागधी यथा—

‘अघौघं नो नृसिंहस्य घनाघनघनघ्वनिः ।
हन्याद्धुरुघुराघोरः सुदीर्घो घोरघर्घरः ॥ १८६ ॥’

विदर्भितः स्वान्तरायेण वैदर्भीप्रपञ्चशोभामानीतः । घुरुघुरेत्यव्यक्तानुकरणम् । अत्रासमाप्ति कवर्गानुप्रासस्तवर्गान्तःस्थानुप्रासाभ्यां विदर्भितः । एवमन्यत्रापि वैदर्भी गवेषणीया ॥

स्वान्त्यसंयोगिवर्ग्या ताम्रलिप्तिका यथा—

‘शिञ्जानमञ्जुमञ्जीराश्चारुकाञ्चनकाञ्चयः ।
कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥ १८७ ॥’