241

अनुस्वारपुरोवर्तीति । अनुस्वारस्वरूपतदादेशावनुस्वारपदेन गृह्येते । तेन शमितहासेत्यादावनुस्वाराभावेऽपि न लक्षणमुदाहरणम् ॥

निष्ठुरा यथा—

‘स्वाङ्गश्लिष्टाद्रिजन्मानं नेत्रार्चिः प्लुष्टमन्मथम् ।
स्तौमि त्र्यक्षं द्युषज्ज्येष्ठं दैत्यश्रेण्यर्चिताङ्घ्रिकम् ॥ १९४ ॥’

सैषा प्रायः संयोगभूयस्त्वेनोत्पद्यते ॥

स्वाङ्गेति । दिवि सीदन्तीति द्युषदो देवाः । सुषामादित्वात्षत्वम् । अत्रैकान्तरिताः संयोगाः संदर्भव्यापकाः प्रतीयन्ते । सोऽयमस्याः संयुज्यमानाविशेषेऽपि वृत्त्यन्तराद्विशेषो निष्ठुराद्वैपरीत्येन श्लेषोदाहरणं सुगमम् ॥

श्लथा यथा—

‘दयितजनविरहविगलितनयनोदकपीतहरिणमदतिलकम् ।
वदनमपगतमृगमदशशिकरणिं वहति लोलदृशः ॥ १९५ ॥’

सेयं प्रायो व्यञ्जना नाम संयोगेन जन्यते ॥

करणिः सादृश्यम् ॥

कठोरा यथा—

‘निसर्गनिर्गतानर्घघर्घरध्वनिहास्तिकम् ।
चक्रे चक्रं युधि क्रामन्नलर्कः कर्कशार्करुक् ॥ १९६ ॥’

सैषा प्रायः कण्ठ्यरेफादिसंयोगादुत्पद्यते ॥

सैषा प्रायः कण्ठ्येति । कण्ठ्यरेफयोः क्वचिदन्यस्याप्यादिपदोपात्तस्य संयोगोऽवसेयः ॥

कोमला यथा—

‘दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते ।
रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥ १९७ ॥’

सेयं रेफणकाराद्यसंयुक्तकोमलवर्णविरचनया निष्पद्यते ॥