श्रुत्यनुप्रासवर्णानुप्रासयोरिति । विषयसप्तमी । वर्णावृत्तेर्वृत्त्यनुप्राससाधारणत्वात् ॥
ततो वर्णानुप्रासं विशेषयन्नाह—यथाम्रातकेति । स्रगादेर्वर्णस्थानीया वर्णावृत्तिर्वर्णानुप्रासः । तत्रोपमानभूतवर्णविवरणं समानजातीयकुसुमादिविरचितमालापटप्रभृतिषु यदन्तरान्तरा विजातीयाम्रातककुसुमादिसंनिवेशनं तद्वर्ण इत्युच्यते । तद्वत्या वाचा वर्णावृत्तिः । सैव वर्णानुप्रास इति सूत्रार्थः । स द्विधा—संयुक्तासंयुक्तवर्णनिरूप्यत्वात् । यथायथमेतदुभयप्रपञ्चनम् ॥
स्तबकवदादयो द्वादश प्रकारास्तेषु क्वचित्क्वचित्संयोगावृत्तिः स्तबकवान् । अनुप्रासविन्यासादिति संयोगानुप्रासविन्यासतः ॥
तेषु स्थाने स्थानेऽनुप्रासविन्यासतः स्तबकवान्यथा—
अत्र गुञ्जतां कुञ्जराणामित्यादेर्वर्णस्तबकस्य स्थाने स्थाने विन्यासादयं वर्णानुप्रासस्तबकवानित्युच्यते ॥
गुञ्जतां कुञ्जराणामकाण्डकण्डूलगण्डस्कन्धगन्ध इत्यत्रावृत्तिचतुष्केण स्तबकनिर्वाहः ॥