150

कश्चिद्गद्येनेति । यथा ह्यटवीवर्णनादौ गद्यं प्रगल्भते तथा न पद्यम्, यथा च काव्यशास्त्रतानिर्वहणोचितेऽर्थे पद्यमुत्सहते न तथा गद्यमित्यादि । एवं कथाख्यायिकादौ गद्यमेव, चम्पूप्रभृतौ मिश्रमेवेत्यादिपदोपात्तबन्धौचिती द्रष्टव्या ॥

आस्तां तावदर्थाद्यौचित्यगवेषणं स्वरूपेणैव पद्यादिकं परिस्फुरत्कविप्रतिभाविशेषावेदनेन सहृदयावर्जकमवसीयते । कथमन्यथा क्वचिदेव कस्यचित्सौष्ठवमित्याह—

यादृग्गद्यविधौ बाणः पद्यबन्धेऽपि तादृशः ।
गत्यां गत्यामियं देवी विचित्रा हि सरस्वती ॥ २० ॥

यादृगिति । गत्यां गत्यामिति । पद्ये गद्ये मिश्रे चेत्यर्थः । विचित्रा अव्यवस्थितसिद्धिका ॥

प्रयोगव्यवस्थामुपपादयति—

यथामति यथाशक्ति यथौचित्यं यथारुचि ।
कवेः पात्रस्य चैतस्याः प्रयोग उपपद्यते ॥ २१ ॥

यथामतीति । मतिर्व्युत्पत्तिः । युक्तायुक्तविवेक इति यावत् । शक्तिः कवित्वबीजभूतः प्राक्तनः संस्कारः । औचित्यं दर्शितमेव । रुचिर्मनोनुकूलताप्रतिसंधानम् । कवेः पात्रस्येति यथायोगम् । तथा हि शक्तिव्युत्पत्ती कवेरेव । औचित्यं पात्रस्यैव । रुचिरुभयोरपीति ॥

स चायं संदर्भावच्छेदो गुरुलघुसंनिवेशेनैव शोभत इति तमाश्रित्य विभागमाह—

द्रुता विलम्बिता मध्या साथ द्रुतविलम्बिता ।
द्रुतमध्या च विज्ञेया तथा मध्यविलम्बिता ॥ २२ ॥

द्रुतेति । आद्यास्तिस्रः शुद्धाः । आसामेव मिथोव्यतिकरेणोत्तरास्तिस्त्रः संकीर्णाः ॥ कथमेषां व्यवस्थेत्यत आह—

सा लघूनां गुरूणां च बाहुल्याल्पत्वमिश्रणैः ।
पद्ये गद्ये च मिश्रे च षट्प्रकारोपजायते ॥ २३ ॥

सा लघूनामिति । बाहुल्यमल्पत्वं मिश्रणं च तुल्यवत्प्रतिभानम् । न गद्यादिकमेव गतिः किंतु तदाधारः पठितिसंचार इति व्यनक्ति-पद्ये गद्ये च मिश्रे चेति ॥

तत्र वृत्तं च जातिं च पद्यमाहुरथो पृथक् ।
समं चार्धसमं चैतद्विषमं च प्रचक्षते ॥ २४ ॥