249
समग्रमसमग्रं वा यस्मिन्नावर्तते पदम् ।
पदाश्रयेण स प्रायः पदानुप्रास उच्यते ॥ ९३ ॥

समग्रमिति । पदालम्बनोऽनुप्रासः पदानुप्रासस्तेन पदावयवमालालम्बनोऽपि पदालम्बन एव । तदिदमाह—पदाश्रयेणेति ॥

विसर्गबिन्दुसंयोगस्वरस्थानाविवक्षया ।
अनिर्वाहाच्च स प्रायो यमकेभ्यो विभिद्यते ॥ ९४ ॥
मसृणो दन्तुरः श्लक्ष्णः संपुटं संपुटावली ।
खिन्नः स्तबकवान्स्थानी मिथुनं मिथुनावली ॥ ९५ ॥
गृहीतमुक्तनामान्यस्ततोऽन्यः पुनरुक्तिमान् ।
इति द्वादशभेदोऽयं मनीषिभिरिहेष्यते ॥ ९६ ॥

ननु यदि पदावृत्तिरभिन्नार्था तदा पुनरुक्तिरेव, भिन्नार्था चेद्यमकान्न भिद्यत इत्यत आह—विसर्गेति । बिन्दुरनुस्वारः । स्थानं कण्ठादिकम् । वृत्तेः पादादियमकताभावो निर्वाहः प्रायोनिर्वाह इति योजना ॥

तेषु मसृणो यथा—

‘सरणे वारणास्यस्य दशनेऽशनिसंनिभे ।
चकार वलयाकारं भुजं भुजगभीषणम् ॥ २१६ ॥’

सोऽयमसंयुक्तवर्णावृत्तेः पदानुप्रासो मसृण इत्युच्यते ॥

वारणास्यो विनायकः । अत्र रणेरणेति शनेशनीति कारकारमिति भुजंभुजेति पदं तदेकदेशावृत्तिः स्फुटमुपलभ्यते । मसृणस्तु कथमित्यत आह—सोऽयमिति ॥

दन्तुरो यथा—

‘स नैषधस्याधिपतेः सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधान्नरेन्द्रात्पुत्रं यमाहुर्रिषधाख्यमेव ॥ २१७ ॥’

अत्र निषिद्धशत्रुरिति पदे संयोगाधिक्येन दन्युरता । सोऽयं पदानुप्रासो दन्तुर इत्युच्यते ॥