खिन्नो यथा—
अत्र रीतेरनिर्वाहात्खिन्नता । सोऽयं पदानुप्रासः खिन्न इत्युच्यते ॥
कुलेति । अत्र प्रथमपादे कुलेति अविवक्षितस्वरादिवर्णयुग्ममक्षरचतुष्टयव्यवधानेन कुलीत्यावृत्तम् । द्वितीयतृतीयपादयोस्तु सुखदसुखेति अभवविभवेति चैकवर्णव्यवधानेनावृत्तिः । चतुर्थपादे तु भवभवेति रीतिभङ्गो न च दोषः । प्रतीत्यव्यवधानात् ॥
स्तबकवान्यथा—
सोऽयं वर्णानुप्रासवत्पदानुप्रासोऽपि स्थाने स्थाने विनिवेशात्स्तबकवानित्युच्यते ॥
वैचित्रीविशेषेणालंकारभावो भासयतीत्यादावाद्यन्तयोर्दूरान्तरितैवावृत्तिः । स्थाननियमस्तु न विवक्षितः । तदिदमुक्तम्—स्थाने स्थान इति ॥
स्थानी यथा—
सोऽयं पदानुप्रासः स्थाननियमात्स्थानीत्युच्यते ॥